________________
१४ सर्गः]
हीरसौभाग्यम् ।
उभयत्र योज्यते । अदशा विरुद्धदशा । तदन्यतद्विरुद्धतदमावेषु नम् वर्तते सारखतोतेः । दुर्दशा सैव लोलटक्कामिनी तस्याः प्रियसखी इष्टवयसीव । च पुनरुत्प्रेक्ष्यतेअङ्गिनां प्राणिनां गुणानां शीललबार्जवमार्दवादीनामावलीनां धोरणीनां समूहनी संमाजेनीव । लोके 'सारवणी' इति प्रसिद्धा । केषामिव । रजसामिव । यथा धूलीनां गृहादिकत्ववरकाणां प्रमार्जनकारिका । निष्काशयित्रीत्यर्थः ॥ इति द्वितीयं व्रतम् ॥
तृणादि नोपाददते च किंचनाप्यदीयमानं मुनयो महीमणे । पदं किलाविश्वसितेरिवैकदृक्ततेररिष्टः पृथिवीपुरंदर ॥ ४३॥ हे महीमणे भूमीरत्न, च पुनर्मुनयः साधवः तृणादि दन्तशोधनमात्रप्रमुखं किंचि. दपि वस्तु अदीयमानं केनाप्यविश्राण्यमानं नोपाददते नैव गृह्णन्ति । हे पृथिवीपुरंदर मेदिनीमण्डलाखण्डल, किलेति निश्चितं श्रूयते वा । हेतोर्वा । 'किल संभाव्यवार्तयोः । हेत्वरुच्योरलीके च' इत्यनेकार्थः । अस्माकं तु सर्वथापि तत्कारणाभावात् लोके जने एवाकर्ण्यते । अदत्तादानं वस्तु खामिना कथमप्यदीयमानवस्तुनो ग्रहणमविश्वसितेरवि. श्वासस्य पदं स्थानमास्ते । क इव । अरिष्ट इव । यथा निम्बतरुः । 'निम्बोऽरिष्टः पिचुमन्दः' इति हैम्याम् । एकदृक्ततेः काकश्रेण्या निवासस्थानं स्यात् ॥
अदत्तमादत्त न यस्त्रिधापि तं वृणोति विद्येव विनीतमिन्दिरा । मृगी मृगेन्द्रादिव दुर्गतिस्ततः प्रयाति दूरादवनीनभोमणे ॥४४॥ हे अवनीनभोमणे प्रतापवत्त्वामीभानो, यः पुमान् त्रिधापि मनोवचनतनुभिः कृत्वा अदत्तं वस्तु खामिना न विश्राणितं यो नादत्त न जग्राह तं पुमांसं इन्दिरा लक्ष्मीः खयमागत्य वृणोति वरयति । भजते इत्यर्थः । कमिव । विनीतमिव । यथा विनयवन्तं शिष्यं विद्या निषेवते पुनस्ततस्तस्मानिःस्पृहानरादुर्गतिर्नरकादिकुगतिर्दूराप्रयाति पालयते । क इव । मृगीव । यथा मृगेन्द्रान्मृगी कुरङ्गी दूरात्प्रयाति ॥ इति तृतीयं व्रतम् ॥
पराङ्मुखी स्याद्विषयादतिव्रजो निकुञ्जवासीव तदेकभूमिषु । · क्षमाघरो येन महोदयंगमी वशास्वनीतिष्विव कोऽनुरज्यते ॥ ४५ ॥
हे साहे, व्रतिव्रजो मुनिगणो विषयात् शब्द-रूप-गन्ध-रस-स्पर्शलक्षणात्पञ्चप्रमाणाद्गोचरात्पराङ्मुखी स्यात् विमुखो विरक्को भवेत् । क इव । निकुञ्जवासीव । यथा वने एव वसनशीलो जन्तुः श्वापदादिविषयाजनपदाद्विमुखः स्यात्कदाचिन्नगरप्रामादिषु नागच्छेत् । येन कारणेन क्षमायाः क्षान्तेः क्षमाया उपशमस्य वा धरो धर्ता पुनर्महोदयं मोक्षं गमिष्यति यास्यतीत्येवंशील: साधुस्तदेकभूमिषु तेषां पञ्चानामपि विषयाणामेका अद्वैता भूमयो वासवेश्मानि । नहि वाणिनीं विना विषयाः सुखाय स्युः । तादृशीषु वशासु स्त्रीषु न अनुरज्यते अनुरक्तीभवति । काखिव । अनीतिष्विव । यथा क्षमाधरो युवराजपदवी प्रापितः सर्वराज्यधुरंधरः पुनर्महान्तं सर्वातिशायिनमुदयं राज्यैश्वर्य