________________
१६..
काव्यमाला। त्यजन्ति ते निरपराधाः जन्तवः प्राणिनः पश्चतायाः पञ्चत्वस्य मृगोचरे विषये चरन्ति व्रजन्तीति एवंशीलाः नैव क्रियन्ते सर्वथा नैव हन्यन्ते । के इव । निजनन्दना इव । यथा खपुत्राः पञ्चताया गोचराः केनचित्पित्रा न क्रियन्ते तथा सर्वेऽपि जगजन्तवः पात्यन्ते एव ॥ न देवदेवः परमेशितुः परः प्रतापवान्नापि पयोजिनीपतेः । गुरुर्नमेरुन मरुन्मणेर्मणिस्तथा न धर्मोऽस्ति दयाविधेः परः ॥ ४० ॥ हे देवशब्देन राजभट्टारकादिरुच्यते । 'राजा भट्टारको देवः प्रयोज्याः पूज्यनामतः' इति ईम्याम् । तथा 'देव त्वद्भुजदण्डदर्पगरिमोद्गीर्णप्रतापानल-', 'देवे दिग्वि जयोद्यते' इति खण्डप्रशस्ती । तथा 'देव त्वं जय कासि लुब्धकवधूईस्ते किमेतत्पलम्' इत्यादि भोजप्रबन्धादावपि । तथा 'देवेन किं न श्रुतम्' इति चम्पूकथायाम् । यथा परमेशितुः परमेश्वरात्परो देवो नास्ति । अथ वा परमेश्वरादपरः देवानां भवनपतिवानव्यन्तरज्योतिष्कवैमानिकानां सुराणामपि देवः पूज्यः एतावता देवाधिदेवः । अपरे सर्वे हरिहरपुरंदरादयो देवाः, परमेश्वरस्तु. देवदेवः, तथा यथा पयोजिनीपतेः सूर्यात्परः प्रतापवान्महखी तेजखी नास्ति । पुनर्यथा मेरोर्लक्षयोजनप्रमाणात्सुदर्शननाम्नः वर्णाचलात कोऽपि गुरुर्महानास्ति । सर्वेऽप्यपरेऽत्युच्चाश्चतुरशीतियोजनमानाः, अयं तु शतसहस्रयोजनोच्चैस्तरः । पुनर्यथा मरुन्मणेश्चिन्तारनात्परो मणिर्नास्ति वजपअरागकर्केतनमरकतेन्द्रनीललोहिताक्षपुलिन्दाअनहंसगर्भादयोऽनेकेऽपि मणयः सन्ति, परं चिन्तामणि विना सर्वकामकरः कोऽपि नास्ति । यथा दयानिधेः कृपाकरादपरो धर्मो न वर्तते । 'नास्ति धमों दयापरः' इति गीतायाम् ॥ इति प्रथमं व्रतम् ॥
वदन्ति वाचंयमपुंगवास्त्रिधा मृषा न भाषामपि जीवितव्यये । इयं यदंहःपटलीव दुर्गतेविमानताया अतिशायि कारणम् ॥ ११ ॥
हे साहे, वाचंयमपुंगवाः साधुसिन्धुराः जीवितव्यये प्राणत्यागेऽपि त्रिधा मनोवचनकार्यः कृत्वा मृषा अलीको भाषां वाचं न वदन्ति न ब्रुवन्ति । यत्कारणादियं मृषा भाषा विमानताया अवगणनायाः पदे पदे अपमानस्य अतिशयते सर्वेभ्योऽभ्यधिकीमवतीत्येवंशीलमतिशायि कारणं साधनं वर्तते । मिध्याभाषी सर्वत्राप्यपमानं परामवं च प्राप्नुयात् । केव । अंहःपटलीव । यथा अंहसां दुष्कृतानां पटली परम्परा दुर्गतेरतिशायि साधनमास्ते ॥
यशःसुधांशोरपिधायिका कुहूरिवादशालोलदृशः प्रियासखी। समूहनीवारजसामिवाङ्गिनां गुणावलीनामनृता हि भारती ॥ ४२ ॥ हे साहे, निश्चितमनृता असत्या भारती पाणी मृषा भाषा कुहूरमावास्येव यशः जगत्प्रसारिकीर्तिकलापः स एव सुधांशुश्चन्द्रमास्तस्यापिधायिका । 'ब्रजति कुमुदे मोहं दृष्ट्वा दृशोरपिघायिका' इति नैषधे । पुनरुत्प्रेक्ष्यते-अत्र इवशब्दो घण्टालालान्यायेन