________________
- १४ सर्गः] हीरसौभाग्यम् ।
६५९ सगाहारनिशक्ति शक्तित्रिकं धत्ते । 'शक्तयस्तिस्रः प्रभुत्वोत्साहमन्त्रजाः' इति हैम्याम् । 'त्रिसाधना शक्ति रिवार्थमक्षयम्' इति रघौ । पुनः क इव । सुधीरिव । यथा विद्वान् विद्यानां व्याकरण-साहित्य-तर्कलक्षणानां त्रितयीं बिभर्ति । भुवनवलिवद्विविद्या संध्यागजवाजिनां भुवननेत्राणि' इति काव्यकल्पलतायाम् । त्रिसंख्याकानि ॥ इति साहेः पुरः सूरिभिः स्वल्य तत्वत्रचाराधनं प्रोक्तम् ॥ कति बतानीह वहध्वमात्मना परेण शक्यानि न वोढुमद्रिवत् । इदं नृपे गृच्छति भारती विभोर्मुखारविन्दे मधुपी बभूवुधी ॥ ३७ ।। विभोहरिगुरोर्मुखारविन्दे वदनपने भारती वाणी मधुपी बभूवुषी भ्रमरी संजायते स्म । प्रोवाचेत्यर्थः । कस्मिन् सति । नृपे अकब्बरे इदं निगद्यमानं पृच्छति प्रश्नं कुर्वति सति । इदं क्रिम् । हे सूरयः, इह जगति संयममार्गे वा यूयमात्मना खेन कति कियत्संख्याकानि व्रतानि नियमविशेषान् वहध्वं धारयत पालयत वा यानि व्रतानि परेण असत्वेन क्लीवप्रायेण पुंसा वोढुं धारयितुं न शक्यानि न समर्थानि । किंवत् । अद्रिवत् । यथा विष्णुव्यतिरेकेणेत्यध्याहारः । पर्वतोऽन्येन केनचिद्वोढुं न शक्यते । 'सोमसिन्धुर्जगन्नाथो गोवर्धनधरोऽपि च' इति विष्णुनामसु हैम्याम् ॥ इति सूरीणां कियद्रतधारणविषये साहेः प्रश्नः ॥ । वसुंधराभोग इवामराचलान्सुपर्वसालानिव काञ्चनाचलः ।
अहं वहे पञ्चमहाव्रतानमून्खविक्रमाधःकृतपाकशासन ॥ ३८ ॥ हे खविक्रमेण निजभुजवीर्यण कृत्वा अधःकृतो हीनीकृतस्तिरस्कारं नीतो वा पाकशासनो वज्रपाणियेन तस्य संबोधनम् । अहममूनने वक्ष्यमाणान्प्रोच्यमानान्पञ्चसंख्याकान्महाव्रतान् सर्वेभ्योऽप्यतिशायिनियमान्वहे बिभर्मि । व्रतशब्दः पुनपुंसके । 'व्रतोपवीतौ पलि लिन्तौ वसन्त' इति लिङ्गानुशासने । क इव । वसुंधराभोग इव । यथा वसुंधराया सार्धद्वयद्वीपलक्षणमनुष्यक्षेत्रभूमेराभोगो विस्तारः पञ्चामराचलान्मेरून् विभर्ति । एको जम्बूद्वीपे, द्वितीयो धातुकीखण्डपूर्वार्धे, तृतीयो धातुकीखण्डपश्चिमाधे, चतुर्थः पुष्करार्धपूर्वार्ध, पञ्चमः पुष्करार्धपश्चिमाधे, एवं पञ्च काञ्चनाचलान् धत्ते । पुनः क इव । काञ्चनाचल इव । यथा मेरुः कल्प-पारिजात-मन्दार-हरिचन्दन-संतानाभिधानान्पञ्च सुपर्वसालान् सुरद्रुमान् कलयति ॥ क्षितीन्द्र तेषामिदमादिमं व्रतं समन्तवो मन्तुमुचोऽपि जन्तवः । न पञ्चतागोचरचारिणः क्वचित्रिधा क्रियन्ते निजनन्दना इव ॥ ३९ ॥ हे क्षितीन्द्र, तेषां पञ्चानां महाव्रतानां मध्ये इदमुच्यमानमादिमं प्रथमं व्रतं वर्तते । तदेवाह-यत्वचित्प्रदेशे ग्रामे अरण्ये वा रहसि प्रकटं वा प्रमोदेन दर्पण संकल्पेन वा त्रिधा मनोवाकायैः कृत्वा समन्तवः सापराधाः अपि पुनः मन्तुमपराधं मुश्चन्ति