________________
१५८
काव्यमाला।
नरोरगस्वर्गृहसार्वभौमतादिमेन्दिरा यस्य वशंवदा सदा । पुनर्विधातेव भवान्तकारकः क्षितीन्द्र धर्मः पुनरीदृशः श्रिये ॥ ३४ ॥ हे क्षितीन्द्र धरित्रीसहस्रनेत्र, ईदृशो विश्व ईदृग्लक्षण: संसारसमुद्रमध्यनजत्समस्तजनतानां धारणादुद्धारणाद्धर्मः श्रिये मोक्षलक्ष्म्यै भवति । किं कुर्वन् । जिनस्य राग. द्वेषाद्यशेषविद्वेषितुः परमेश्वरस्यास्यपद्मे वदनकमले मकरन्दविभ्रमं मधुविलासं दधद्धारयन् । सर्वज्ञप्रणीत इत्यर्थः । किंलक्षणः । विपदापद्रूपा या पूषसुता सूर्यपुत्री यमुना . तद्भिदायां प्रलम्बभिद्बलभद्रोपमः । 'रुक्मिप्रलम्बयमुनाभित्' इति हैम्याम् । आपदल्लीनां मूलोन्मूलनकृदित्यर्थः । उत्प्रेक्ष्यते-महोदयो मोक्षः स एव स्वर्गितरुः कल्पद्रुमस्तस्याङ्कुरः प्ररोहः । यथाङ्कुरात्तर्जायते तथा धर्मादेव सर्वदुःखक्षयः स्यादिति । पुनः किंभूतः । कृपा जगजीवानुकम्पा सैवं पयोराशिः समुद्रस्तद्वर्धने तमखिनीपतिः विधुः । यथा चन्द्रात्समुद्रो वर्धते, तथा धर्मादपि दयापि वर्धमाना भवति। जीवदयामय इत्यर्थः। पुनर्यस्य धर्मस्य नरा मनुष्याः, उरगा नागाः, वहाः पुराः, तेषां सार्वभौमाश्चक्रवतिनस्तेषां भावो नरोरगवर्गहसार्वभौमता नरेन्द्रता नागेन्द्रता असुरेन्द्रता देवेन्द्रता ता आदिमा यत्यास्तादृश्य इन्दिराः सर्वत्रियो लक्ष्म्यो यस्य सदा नित्यं वशंवदा आयत्ता यं ददाति तं श्रयन्ते पुनः विधाता ब्रह्मा इव भवस्य संसारस्यान्तकारकः पातुकः विधातापि भवान्तकृन्नामा ॥ युग्मम् ॥ इति धर्मखरूपम् ॥ . जनुष्मतां शालिशया इवात्मनापुनर्भवोद्भावविधायिनोऽनिशम् ।
त्रयोऽप्यमी सन्ति समग्रमेदिनीधवावतंसीकृतपादपङ्कज ॥ ३५ ॥ समग्रा ये मेदिनीधवाः पृथिवीपतयो राजानस्तैरवतंसीकृतं शेखरीप्रणीतं पादपङ्कजं यस्य स तस्य संवोधने । अमी देवो गुरुर्धर्मश्च त्रयोऽपि जनुष्मतां जन्मभाजां भवि. कानां शालिशयाः शोभनशीलाः पाणय इव आत्मना खयमपुनर्भवस्य न विद्यते पुनस्ततोऽत्रागत्य द्वितीयवारं भव उत्पत्तिर्यस्मात्तादृशो मोक्षः तस्य तथा पुनर्भवानामुद्भावः प्रकटीभवनं तं विदधते कुर्वते इत्येवंशीलाः मुक्तिकारिणो विद्यन्ते सन्ति ॥ इति सुधर्मदेवगुरुनिरूपणम् ॥ शिवस्त्रिनेत्रीमिव भूमिमानिव त्रिशक्ति विद्यात्रितयीं सुधीरिव ।। अचालनीयां सुरशैलवत्सुरैस्तदर्हदादित्रितयीमहं वहे ॥ ३६ ॥ हे साहे, अहं तत्पूर्वव्यावर्णितस्वरूपामर्हदादीनां जिनगुरुधर्माणां त्रितयीं वहे स्वेन धारयामि । किंभूताम् । सुरैर्देवैरप्याचालनीयां चालयितुमशक्याम् । किंवत् । सुरशैलवद्यया मेरुः केनापि न चाल्यते । अहं वहे । क इव । शिव इव । यथा ईश्वरत्रिनेत्रीं लो. चनत्रितयं वहति । 'एकत्रिदृग्भालटुगेकपादः' इति हैम्याम् । यदुक्तं च-'गतियुगलकमेवोन्मत्तपुष्पोत्कराणां त्रिनयनतनुपूजा वाथ वा भूमिपातः' इति । पुनः क इव । भूमिमानिव । यथा राजा तिसणां प्रभुत्व-उत्साह-मन्त्रलक्षणानां त्रिकसंख्याकानां शक्तीनां