________________
१४ सर्गः] हीरसौभाग्यम् ।
६५५ तु पुनः केनापि धार्मिकेण पुंसा मरुगृहेन्दिरा वर्गलोकलक्ष्मीः खकामुकी खस्मिन्निरछा यस्याः स्वाभिलापिणी। 'इच्छायुक्ता तु कामुका'। विप्रत्यये कामुकीक्रियते । अथ वा खस्यात्मनः कामुकी लालसाकलिता क्रियते । 'वृषस्यन्ती कामुकी स्यात्' इति हैम्याम् । केनेव।सौभाग्यवतेव । यथा 'सद्गमनसन्निरीक्षणसजल्पनमिति वदन्ति लावण्यम् । स्पृहणीयो रतिसुभग: स्पर्शगुणो भवति सौभाग्यम् ॥ इदं च द्वयमपि स्त्रीपुरुषयोः स्यात् । अत्र तु सुभगत्वभाजा वसुदेवेनेव सकलकामिनीजनकार्मणा वा पुरुषेण वशा वनिता खकामुकीक्रियते । पुंसा किं कुर्वता । दुर्दुष्टोऽन्तोऽवसानं यस्य प्रान्ते कठिनः वि. पाको यस्य तादृशं दुःखं यस्मात्तद्विधाविषयागोचरात् शब्द-रूप-गन्ध-रस-स्पर्शलक्षणपश्चसंख्यकात् गुणाद्विभ्यता संसारकारागारप्रपतनानन्तासातसहनादिमहाभीति बि. भ्रता अत एव विगीतोऽपमानितो मुक्तः सङ्गः पुत्रकलनधनादिकः सकलसंसारिकानुषङ्गः संसारिकस्नेहो येन । पुनः किंभूतः । कृपानुषहेन पृथ्वी-अप्-तेजो-वायु-वनस्पत्-त्रसरूपाणां षण्णां कायानां रक्षणलक्षणकरुणाकलितेन षट्कायगोकुलपालकेन समस्तयावजगच्चराचरजन्तुरक्षाक्षमणेत्यर्थः ॥
क्रमादुपक्रम्य समाधिना भवी भवं स मुञ्चन्भजते महोदयम् । स्वलोहतां सिद्धरसेन संत्यजन्सुवर्णतां धातुरिव प्रपद्यते ॥ २५ ॥
स विषयविमुखो भवी संसारी जीवः क्रमात्परिपाटीतः खगें गत्वा प्रशस्तमर्मजन्म संप्राप्य उपक्रम्य चारित्रादिविशिष्टधर्माचरणोपक्रमं कृत्वा समाधिना शुक्लध्यानयोगेन भवं संसारमुज्झन् मुञ्चन् सन् महोदयं मोक्षं निःसीमानमभ्युदयं भजते । संसारसागरं निस्तीर्थ सिद्धो भवतीत्यर्थः । क इव । धातुरिव । यथा धातुलॊहादिः सिद्धरसेन रसकूपिकादिपानीयविशेषेण खलोहतां कालायसभा नीचधातुतां संत्यजन् मुश्चन् सुवर्णतां
प्रपद्यते ॥ इति धर्मदेशना ॥ । अभाजि युष्माभिरिवानुगामिभिर्महीमहेन्द्रः परमेशिता स कः ।
अवद्यवन्ध्यां पदवीं प्ररूपयन्नुपासनामर्हति कीदृशो गुरुः ॥ २६ ॥
सुधाब्धिवद्यो ददतेऽमृतं पुनः स किंविधो धर्म इदं वदन्तु मे।। .. महीमहेलादयितोदितामिमां गिरं निपीय प्रभुरप्यचीकथत् ॥ २७ ॥ - इमां वृत्तापेक्षया पूर्वोक्तां मही भूमिरेव महेला कामिनी । 'यश्च परमहेलारतोऽप्यपारदाारेकः' इति चम्पूकथायाम् । तथा 'महिला स्थान्महेलया' इति शब्दप्रभेदे । तस्या दयितो भर्ता अकब्बरः तेनोदितां कथितां वाणी निपीय सादरं श्रुत्वा प्रभुः सूरीन्द्रोऽप्यचीकथत् वदति स्म । इमां काम् । हे सूरीन्द्राः, इदं मयैव निगद्यमानं पृच्छय. मानं मे मम वदन्तु कथयन्तु । इदं किम् । यः परमेशिता परमेश्वरो युध्माभिः श्रीमद्भिरभाजि संसेव्यते म। कैरिव । अनुगामिभिरिव । यथा महीमहेन्द्रो नीतिमान् मान् सेवकैः सेव्यते । स कः परमेष्ठी किनामा च पुनः किंगुणो गुरुरुपासनामर्हति सेवां