________________
काव्यमाला।
कर्तुं योग्यो भवति सेवनीयः स्यात् । गुरुः किं कुर्वन् । अवद्येन पापेन वन्ध्याम् 'अवद्यमुक्तः पथि यः प्रवर्तते' इति सिन्दूरप्रकरे । सर्वथा पापनिमुक्तां पदवीं मार्ग प्ररूपयन् । गुरोर्गुरुरिति विशेषणमपि तत्वोपदेष्टा हिताहितनिरूपकः । च पुन: सुधा. ब्धिवत्क्षीरसमुद्र इव अमृतं सुधां मोक्षं च ददते विश्राणयति । अयं 'दद दाने' धातुरात्मनेपदी भ्वादिश्च । स धर्मः किंविधः कीदृक्प्रकारः ॥ युग्मम् ॥ इति साहेदेवगुरू न्प्रति देवगुरुधर्माणां प्रश्नः ॥
जगन्ति यस्यानुभवेऽनुबिम्बितामिवात्मदशें दधते धरापते। .. जिगाय चाष्टादशदोषविद्विषो नवद्वयद्वीपभुवो जयीव यः ॥ २८ ॥ तरङ्गिणीवेणिमिवाम्भसा प्रभुर्न चाङ्कपाली नयते नितम्बिनीम् । . क्वचित्पुनर्यस्य न नर्मनर्मदाहदावगाहे द्विरदायित हृदा ॥ २९ ॥ . विभर्ति हेतीन तनूनपादिवाहितान्पुनयों न हिनस्ति हिंस्रवत् । । भवं भिनत्ति स्म करीव पञ्जरं दधाति देवः स नमस्क्रियाहतीम्॥३०॥
हे धरापते, स दीव्यति क्रीडति त्रैलोक्यैश्वर्यलम्या ब्रह्मश्रिया वा स देवः परमेश्वरो निखिलनरसुरासुराणामपि नायकः नमस्क्रियाया नमस्कृतेराहतीमौचिती योग्यतां दधाति बिभर्ति । 'उडुपरिषदः किं नार्हन्ती निशः किमनौचिती' इति नैषधे। अत्र नुम्विकल्पत्वेन रूपद्वयी आईन्ती आहती च। अर्हतो भाव आईती। 'अणतृण ईप्' इतीप्प्रत्ययः । इति सिद्धिरपि । स देवः प्रणामयोग्यः स्यात् । स वः। यस्य परमेशितुरनुभवे ज्ञाने जगन्ति त्रीणि-सप्त-चतुर्दश-एकविंशतिर्वा भुवनानि अनुबिम्वन्ति संक्रामन्तीत्येवंशीलानि अनुबिम्बीनि अनुविम्बिनां भावोऽनुबिम्बितां प्रतिबिम्बशीलतां दधते बिभ्रति। कस्मिन्निव । आत्मदर्श इव । यथा निर्मलदर्पणमण्डले क्वापि भूधनधनिगृहचित्रशालिकादिभित्त्यादौ चित्रीकृतानि त्रीणि जगन्ति प्रतिफलन्ति । च पुनर्हे भूवल्लभ, यो देवो दीनान्तराय-लाभान्तराय-वीर्यान्तराय-भोगान्तराय-उपभोगान्तराय-हास्यरति-अरति-भीति-जुगुप्सा-शोक-काम-मिथ्यात्व-अज्ञान-निद्रा-अविरति-ग-द्वेषनामानोऽटादशसंख्याका दोषा अपगुणास्त एव विद्विषो महावैरिणो जिगाय परा:तवान् । क इव । जयीव । यथा परराजजित्वरो राजा नवसंख्याकानां द्वयं द्वन्द्वं नवद्वयं नवद्वयं च ते द्वीपाश्च नवद्वयद्वीपाः इति नैषधवृत्तिनरहरिकृतसमासः । तेषामष्टादशद्वीपानां भुवो भूमीप्रदेशान् जयति खवशीकुरुते । 'नवद्वयद्वीपपृथग्जयश्रियाम्' इति नैषधे । तथा 'अष्टादशद्वीपनिखातयूपः' इति रघौ । च पुनर्यः परमेष्टी नितम्बिनी कान्तामङ्कपालीमालिङ्गनं न नयते न प्रापयति । 'आलिङ्गनं परिष्वङ्गः संश्लेष उपगूहनम् । अङ्कपाली परीरम्भः' इति हैम्याम् । क इव । प्रभुरिव । यथा अम्भसां पानीयानां खामी समुद्रस्तरङ्गिणीवेणिं नदीप्रवाहं नदीपूरं नदीनां खपत्नीत्वेनाश्लेषणं नयते लम्भयति । पुनर्यस्य परमात्मनो हृदा हृदयेन क्वचित्कुत्रापि समये प्रदेशे वा