________________
काव्यमाला।
अनश्वरी श्रीर्युवता किमु ध्रुवा जरापि जीर्णा शमनः शशाम किम् । यदेष जन्तुविषयाभिलाषुको दधाति धर्मे न मनो मनागपि ॥ २१ ॥ हे नृप, श्रीलक्ष्मीरनश्वरी शाश्वती अस्थिरैव । यदुक्तम्-'सायरवप्पमुरारिपिय चन्दसरीसा भाय । लन्छी हीडइ घरि घरि महिला एह सहाय ॥' इति पुनर्युवता यौवनं ध्रुवा नित्या कदापि न यास्यति । 'यौवन जाइ वेगिनदीयुजलहइ । इन्दुचन्दुनागिन्दु- . कहो कुणथिररहइ ॥' इत्युक्तेः । पुनर्जरा विस्रसा यौवनवयोहानिलक्षणावस्था जीर्णा. स्थविरीभूता स्थातुमुत्थातुमप्यशक्का जाता किम् यजराशक्तभावान्नागमिष्यति । य. .' दुकम्-'यौवनकेरेदीहडइ कीजइ मित्त दुच्यार । कालिज वडपण आवशइ को न विवार ॥' इति । पुनः शमनो यमः शशाम शान्तीभूतः । किंभूतः । यदथ कमपि न .. व्यापादयिष्यामि मृतो वा यत्कारणादेष जन्तु वो विषयानां कामभोगादिसुखानाम- . भिलाषुकः कामयिता कामुको लोलुपः सन् धर्मे सुकृताचरणे मनागीषन्मात्रमपि. मन- . श्चित्तं न दधाति स्थापयति ॥ . प्रसृत्वरः शंबरवैरिविक्रमोऽचिरात्सृजेद्विक्रमिणोऽप्यविक्रमान् ।
उदीयतेऽस्मादपि राजयक्ष्मणा तमोभरेणेव तमखिनीमुखात् ॥ २२ ॥ हे साहे, प्रसृत्वरः प्रसरणशीलः प्रवर्धमानः शंबरनामा दैत्यविशेषस्तस्य वैरी दस्युहन्ता स्मरस्तस्य विक्रमो वीर्य प्रतापः स्मरी अपस्मारप्रसारः मदनोन्मादः अचिरादल्पकालादेव विक्रमिणोऽपि महाशक्तिमतोऽपि अविक्रमान् निर्वीर्यान् अबलान् सृजेत् कुर्यात् अपि पुनरस्मान्मदातिरेकात् राजयक्ष्मणा क्षयरोगेण उदीयते प्रादुर्भूयते । केनेव । तमोभरणेव । यथा तमखिनीमुखात्प्रदोषात्संध्यासमयादन्धकारेण स्फूर्यते ॥
मनोभुवा मोहयमानमानसो महांहसां संहतिमात्मनाचरन् । लभेत कश्चिन्नरकेषु कारणामिहैव शूलामिव पारिपन्थिकः ॥ २३ ॥ कश्चित्पापीयान् पुमान्नरकेषु कारणां सप्तखपि दुर्गतिषु परमाधार्मिकनिर्मितां क्षेत्रोभृतां महारोगशीतोष्णादिजनितां कासश्वासकठोदरादिकां तीव्रवेदनां लभेत प्राप्नुयात् । क इव । पारिपन्थिक इव । यथा परखाद्यपहर्ता तस्करो नरकेषु नारकित्वेन नरको. . भृतां महती पीडां लभते। कामिव । शूलामिव । यथा इह लोके च शूलो मार्यमाणचौ. राधिरोपणतीक्ष्णतदादिकां महती व्यथां प्राप्नोति । जन्तुः किं कुर्वन् । ननोभुवा शत्रुभूतेन कामेन मोहयमानं मोहं मूर्छा सदसद्विवेचनचातुरीविकलतां नीयमानं मानसं मनो यस्य तादृशः सन्महांहसां प्रबलपापानां संहति श्रेणीमाचरन् । यदुक्तं नैषधे दमयन्त्याः पुरस्तात्—'दधुना नल: पापभीररपि त्वत्प्रापकात्रस्यति नैनसोऽपि' इति ॥
दुरन्तदुःखाद्विषयात्तु बिभ्यता विमुक्तसङ्गेन कृपानुषङ्गिना । वशेव सौभाग्यवता खकामुकीक्रियेत केनापि मरुद्हेन्दिरा ॥ २४ ॥