________________
१४ सर्गः] हीरसौभाग्यम् ।
१९३ हे धरेश क्षितिपते, धर्मेण सुकृताचरणेन विना जनुष्मतां प्राणिनां परं केवलं जनुर्जन्म अपार्थतां निरर्थकत्वम् अपगतोऽर्थः धर्मप्रयोजनं यस्य । यदुक्तम्-'जे जि. णधम्मबाहिरा ते जाणे वाचारि । उग्या उरहिंध्ययगया संसारिया संसारि ॥ इति । तस्य भावस्तत्ताम् । 'अर्थो हेतौ प्रयोजने । निवृत्तौ विषये वाच्ये प्रकारे द्रव्यवस्तुषु ।' इत्यनेकार्थः । एवोद्वहते बिभर्ति । तथा 'यस्य युधिष्ठिर इव न क्वचिदपार्थो वचनक्रमः' इति चम्पूकथायाम् । जनुष्मतां किमाचरताम् । अभङ्गा अनवच्छिन्नाः सततप्रवृत्ता ये भोगा विभववनिताराज्यादिसुखाखादास्त एवाम्बुधिः समुद्रः तत्र शंबरीयतां मीनानामिवाचरताम् । 'शंबरो दानवान्तरे । मत्स्यैणगिरिभेदेषु' इत्यनेकार्थः । तथा 'शंबरो. ऽनिमिषस्तिमिः । मत्स्योऽवमीनः' इति हैम्याम् ॥
कुरङ्गनाभीमपहाय भूषितुं खवर्म गृह्णाति निषद्वरं करे। निकृत्य गेहोपवने प्ररोपितं सिताभ्रसालं वपतेऽर्कपादपम् ॥ १९ ॥ अपास्य पीयूषरसं जिजीविषुर्मुखादहीन्दोः स्वदते गरं पुनः । विमुच्य धर्म नृप सार्वकामिकं विमुग्धधीर्यो विषयेऽनुरज्यते ॥ २०॥ हे नृप, सर्वानैहिकामुष्मिकान् कामानभिलाषान् करोति पूरयतीति सार्वकामिकस्तम् । 'ऋतुं विधत्ते यदि सार्वकामिकम्' इति नैषधे । तादृशं धर्म विमुच्य त्यक्त्वा यो विशेषेण मुग्धा कृपा. कृत्येप्वनभिज्ञा कार्याकार्यविचारविकला धीर्बुद्धिर्यस्यासावज्ञानो विषये भोगसुखादावनुरज्यते अनुरक्तीभवति, स पुमान् कुरङ्गनाभी कस्तूरिकाम्। मृगमदवाच्यपिनाभिशब्दो ह्रखो दीर्घोऽपि 'मृगनाभिर्मृगमदः' इत्यत्र हैम्यां दखः । तथा 'गोरोबनाचन्दनकुङ्कुमणनाभीविलेपात्पुनरुक्तयन्ती' इति नैषधे दीर्घोऽपि । अपहाय मुक्त्वा खवर्म निजशरीरं मुखस्तनाद्यवयवं स्त्रीमधिकृत्य पुनरथें केवलं वपुरेव भूषितुं वि. लेपनादिना भाले तिलकादिना वा शोभां नेतुम् । यथा 'शोभन्ते स्थितिसौष्ठवेन कतिचित्कस्तूरिकाम् ,' 'नेपालक्षितिपालभालफलके पङ्कं न शङ्केत कः' इति सूक्तपदद्वयी । निषद्वरं पडू कचवरकं करे हस्ते गृह्णाति । पुनः गेहस्य खमन्दिरस्योपवने समीपवाटिकायां गृहारामे वा प्ररोपितं स्वयं पृथक् मनोरथैरुप्तं सिताभ्रसालं कर्पूरपादपम् । 'छित्त्वा कर्पूरखण्डान्वृतिमिह कुरुते कोद्रवाणां समन्तात्' इति सिन्दूरप्रकरे । निकृत्य छित्वा । 'कृती छेदने' अयं धातुः । अर्कपादपम् 'आकडा' इति लोकप्रसिद्ध नामेति अर्कवृक्षम् । 'अर्काः किं फलसंचयेन भवतां किं वा प्रसूनैर्नवैः' इत्यपि सूक्तम् । वपते प्ररोपयति । वपधातुरुभयपदी । पुनः स पीयूषरसं तुष्टसुरदत्ताजरामरकृदमृतं संत्यज्य दूरे क्षिप्त्वा जीवितुमिच्छुजिजीविषुः सन् अहीन्दोः विषभाससहस्रभाजः शेषनागराजस्य । 'विषभारसहस्रेण वासुकिनैव गर्वितः । वृश्चिको विषमात्रेण वो वहति कण्टकम् ॥' इति सूक्तम् । मुखाद्बदनाद्गरं गरलं खदते पिबति । 'संगर गरमिवाकलयन्ति' इति नैषधे ॥ युग्मम् ॥