SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ १४ सर्गः] हीरसौभाग्यम् । अहो सूरयः, अहं वो युष्माकं महीयसीमतिगुर्वी विश्वप्रशस्यां कृपालुतां सर्वजगजन्तुषु कृपावत्तां किमिति प्रश्ने स्तुने श्लाघाविषयं नयामि । उताथ वा वो युष्माकं खाचरणे निजाचारविधिमार्गपालने प्रवीणतां नैपुण्यं सुशिक्षिततां किं स्तुवे प्रशंसानि । पुनरहं पयोदवद्वार्षिकघनाघन इव परोपकारितां परेषां निःशेषालघुलघुप्राणिनामुपकर्तृत्वं स्तुवे कवयामि । वाथ वा भवतां शुचेः पवित्रस्य विशुद्धस्य वा पथो मार्गस्य सद्धर्माचरणस्य वा निरूपकमुपदेष्टारं कथयितारं वा स्तुवे स्तुतिविषयीकरोमि । कं कं स्तुवे श्वाघे, सर्वमपि प्रशंसापरमास्पदमिति ॥ जगत्यसाधारणता व्यतकिं वः क्षणादनेनाचरणेन शासने । सुधाभुजां भूमिरुहीव कामितप्रदातृभावेन मुमुक्षुपुंगवाः ॥ १२ ॥ हे मुमुक्षुपुंगवाः सूरीश्वराः, अनेन समग्रजगजन्तुजातपालनलक्षणेन आचरणेन सदाचरणविधानेन कृत्वा क्षणादल्पकालात्तत्कालमेव मया वो युष्माकं शासने जैनदर्शने जगति विश्वे असाधारणता सर्वेभ्योऽद्वैतता एतावता पञ्चभ्यो दर्शनेभ्यो युष्माकं जैनशासनमसाधारणमेवेति व्यतार्क मया विचारितम्। ज्ञातमित्यर्थः। कस्मिन्निव। भूमिरुहीव । यथा कामितानामैहिकाशेषमनोभिलषितानां प्रकर्षेण दातृभावेन दायकत्वेन सुधाभुजाममृताशनानां पादपे असाधारणता वितळते, एतावता यथा सर्ववृक्षजातिभ्यः कल्पद्रुमा विशेषास्तथान्यशासनेभ्यः श्रीमच्छासनमिति ॥ इति सूरीन्द्रकृपालुताजैनशासनयोः प्रशंसा ॥ कथीपकस्यास्तरणं ततः करद्वयेन दूरीकृतवान्वयं नृपः । मुनीन्द्रसङ्गादिव पापमात्मनः प्रभुः पुनाति स्म पुनः स तां क्षितिम् १३ ततः प्रभुकृपालुतावगमनप्रणीतप्रशंसानन्तरं नृपोऽकब्बरः खयं तत्रान्यसेवकाभा. वादात्मनैव करद्वयेन पाणिपद्मद्वन्द्वेन कथोपक इति नान्नः परदेशोत्पन्नजातिविशेषपट्टसूत्रमयवस्त्रस्यास्तरणं दुलीचकापराभिधानं दूरीकृतवानपसारयति स्म । पश्चात्कृत इत्यर्थः । पृथक्चक्रे । उत्प्रेक्ष्यते-मुनीन्द्रस्य हीरसूरेः सङ्गादात्मनः स्वस्य पापमिव दूरीचकार । तस्य दूरीकरणात्प्रभुः सूरिस्तामास्तरणरहितां क्षिति पुनाति स्म पवित्रयामासिवान् । ऊर्ध्व धरामारुरोहेत्यर्थः । चित्रशालिकात्रिसोपानभूमौ चढित इत्यर्थः ॥ धरेशधामाधरिताद्रिसूदनोपदीकृतास्थामिव चित्रशालिकाम् । विभूषयांचक्रतुरुर्वरावरानगाररात्रीरमणौ क्रमेण तौ ॥ १४ ॥ उर्वरायाः सर्वसस्याया भूमेः वरः खामी धनधान्यमणिप्रसवित्र्या धरित्र्याः पतिः । यदुक्तम्-'शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम्। सुवर्णपुष्पां पृथिवीं चिन्वन्तु पुरुषास्त्रयः॥ इति। तथा रघुवंशेऽपि-'क्षितिरिन्दुमतीच भामिनी पतिमासाद्य तमग्र्यपौरुषम् । प्रथमा बहुरत्नसूरभूदपरा वारमजीजनत्सुतम् ॥' इति । तथा अनगाररात्रीरमणः श्रमणचन्द्रः सूरिस्तो क्रमेण चित्रशालिकां विभूषयांचऋतुः अलंकुर्वाते स्म । उत्प्रेक्ष्यते
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy