________________
६५०
काव्यमाला।
न निक्षिपामीत्यर्थः । ततः सूरीकथनानन्तरं साहिरभ्यधावति स्म । हे सूरयः, अत्र मच्चित्रशालिकायां दुलीचकाच्छादितायां च भूमौ कदापि कस्मिन्नपि समये वर्षाग्रीष्मादावपि कश्चन कोऽपि कीटकादिरसुमान् जीवो न भवेत् नैव स्यात् । क इव । यथा मुराणां मन्दिरे देवगृहे स्वर्गे भूचरो नरो मनुजो न स्यात् ॥
गुरुर्जगावाचरणं तथाप्यदः पदं निभाल्यैव ददे परत्र नो । यतः स्वकीयाचरणं मुमुक्षुणा प्रयत्नतो रक्ष्यममर्त्यरत्नवत् ॥ ८॥ गुरुः सूरिः पुनर्जनौ जल्पति स्म-हे साहे, यद्यपि श्रीमच्चित्रशालिकायां रचनालारिमदुलीचकस्य अध उपरि वा सर्वथापि कीटिकादिजन्तुर्न स्यात् , तथापि जीवाभावे सत्यपि ममाद एतदाचरणमाचारो वर्तते यदहं निभाल्य अग्रेतनां युगप्रमाणां भूमिका नेत्राभ्यां विलोक्यैव पदं ददे स्थापयामि, न परत्र चक्षुरनवेक्षिते स्थाने सर्वथापि क्रमं न मुश्चामि । 'दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं पिबेजलम् । सत्यपूतं वदेद्वाक्यं मनःपूतं . समाचरेत् ॥' इति नीतिशास्त्रेऽपि । हे साहे, यतः कारणान्मुमुक्षुणा संसारकारागारात्वं मोचयितुमिच्छता यतिना खकीयाचरणं निजस्याचारः प्रयत्नतः प्रमादनिद्राकषायादीनां निराकरणाद्रक्ष्यं सम्यक्परिपालनीयम् । किंवत् । अमर्त्यरलवत् । यथा संतुष्टेन केनचिद्देवेन दत्तं चिन्तामणिं सम्यक्प्रयत्नेन कृत्वा रक्ष्यते ॥
ततः स यावत्कुरुते तदुच्चकैर्वभूव तावत्प्रकटैव कीटिका ।
तिप्रभोरप्रतिमां कृपालुतां पुरः क्षितीन्दोर्गदितुं किमात्मना ॥९॥ ततो गुरुगदितानन्तरं सोऽकब्बरो यावहुलीचकं करे गृहीत्वा पश्चादुच्चकैः करोति ऊर्ध्वमुत्ताटयति, तावत्तत्र प्रदेशे कीटिकैव प्रकटा साहिलोचनगोचरा, बभूव संजाता नृपेण स्वदृष्टया दृष्टा । उत्प्रेक्ष्यते-क्षितीन्दोः पुरो राज्ञोऽग्रे व्रतिप्रभोः सूरेः अप्रतिमामसाधारणां कृपालुतां दयावत्तामात्मनेव स्वेन गदितुं कथयितुमिव प्रकटीकर्तुमिव ।। ततः क्षितौ खस्य यथैकभूपतां गुरोस्तथाद्वैतदयाधिनाथताम् ।
अवेत्य चित्तेऽतिचमत्कृतिं वहन्मुहुर्मुहुस्तं प्रशशंस भूमिमान् ॥ १०॥ ततः, कीटिकादर्शनानन्तरं स भूमिमानकब्बरसाहिर्मुहुर्मुहुर्वारंवारं तं सूरीन्दं प्रशसि श्लाघते स्म । किं कुर्वन् । चित्ते मनस्यतिचमत्कृतिमतिशयेनाश्चर्य वहन् दधत् । किं कृत्वा । क्षितौ क्षितिमण्डले खस्यात्मनो यथा येन प्रकारेण अन्यराजसु ताहक्स्फूर्तिमा. हात्म्याद्यभावात् खस्यैव तदद्वैतत्वेन एकभूपतामद्वैतपातिसाहितां तथा तेन प्रकारेण गुरोरद्वैतामनन्यसामान्यां दयायाः कृपाया अधिनाथतां खामित्वम् । कृपालुतामित्यर्थः । चित्ते स्वमानसे अवेत्य ज्ञात्वा । चित्ते इत्युभयत्रापि योजनीयम् ॥
कृपालुतां वः किमहो महीयसीमुत स्तुवे खाचरणप्रवीणताम् । पयोदवत्कि तु परोपकारितां निरूपकं वा भवतां शुचेः पथः ॥ ११ ॥