SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। श्रीनेमिनाथशासनाधिष्ठायिका देवता भाति स्म शुशुभे । केव। चन्द्रकलेव । यथा शंभो. रीश्वरस्य मूर्ध्नि मस्तके शशिकला भाति । पुनर्यस्मिन् गिरौ नेमिनामा जिनो द्वाविंशतितमस्तीर्थनाथोऽधिपतिः श्रीनेमिनाथस्तथा गजपदं श्रीनेमिनाथवन्दनागतसौधर्मेन्द्रेण निजगजरत्नैरावणहस्तिपार्श्वप्रदापितपदातिभारपूर्वकं कारितं सर्वतीर्थावतारं गजपदं नाम कुण्डं प्रसिद्धं जगद्विश्वत्रयमपि पुनीते पवित्रीकरोति। यदुक्तं नगरपुराणे- 'दृष्ट्वा शजयं तीर्थ स्पृष्ट्वा रैवतकाचलम् । स्नात्वा गजपदे कुण्डे पुनर्जन्म न विद्यते ॥ इति ॥ अस्त्यद्रिप्रभुनन्दनोऽर्बुदगिरियस्मिन्वसत्यात्मना ___ स्थाणुशोणिभृतीव कल्पितशिवाश्लेषो वृषाङ्कः प्रभुः। . निर्जेतुं दशमौलिवत्क्षितिभृतः किं सांयुगीनान्भुजा स्तूपान्विशतिरहतां वहति यः संमेतभूभृत्परः ॥ २२० ॥ . हे नृप साहे, परः अर्बुदनामा गिरिः अस्ति तीर्थत्वेन प्रसिद्धो विद्यते। किंभूतः । अदिप्रभोहिमाचलस्य । “हिमालयो नाम नगाधिराजः' इति कुमारसंभवे । पर्वतानां पतिस्तस्य नन्दनस्तनयः । 'गौरीगुरुखशुरभूधरसंभवोऽयमस्त्यर्बुदः ककुदमद्रिकदम्बकस्य' इति वस्तुपालवसतिप्रशस्तौ अर्बुदाचले एव । यस्मिन्नर्बुदगिरी वृषाङ्कः प्रभुः ऋषभदेवः खामी खयमात्मना वसति । पूर्व तु भरतादिसंघपतिभिः स्वखोद्धारकरणसमये ऋषभादितीर्थकृत्प्रतिमाः स्थापिताः अभवन् , परमिदानींतनसमये पञ्चमे अरके विमलमन्त्रिणा सर्वप्रासादनिर्मापणात्पूर्व स्वकारितविमलवसतो. ऋषभखामी वर्तते । कस्मिनिव । स्थाणुशोणिभृतीव । यथा अष्टापदपर्वते सतीष्वपि त्रयोविंशतितीर्थकृतप्रतिमासु भरतकारितत्वात्खतातत्वाच्च मुख्यतया ऋषभदेव एव खामी । अथ च वृषाङ्कः शंभुरचलेश्वरो यत्र परशासनदेवो विद्यते । सोऽपि कस्मिन्निव स्थाणुक्षोणिभृत्तीव । यथा कैलासेऽपि परशासनरीत्या ईश्वरो विद्यते । किंभूतौ द्वावपि । वृषो वृषभोऽको वामोरूचिह्न यस्य । शंभोर्वाहनत्वे यस्य । 'रुद्रोडीशो वामदेवो वृषाङ्कः' इति हैम्याम् । पुनः किंभूतौ । प्रभुः खामी सर्वादिभूतत्वात्प्रथमराजत्वात्सर्वसृष्टिकारणत्वाच्च शंभुरपि प्रभुः समर्थः सृष्टिसंहरणकारकत्वात् विश्वं ब्रह्मरूपेण सृजति विष्णुरूपेण पालयति शिवरूपेण संहरति । अत एवोक्तम्-'एकमूर्तिस्रयो देवा ब्रह्मविष्णुमहेश्वराः । समप्रसर्गनिर्माणपालनक्षयकारिणः ॥' इति । तथा नैषधेऽप्युक्तम्-'क्षये जगजीवपिबं शिवं वदन्' इति । पुनः किंभूतौ । कल्पितः कृतः शिवस्य मुक्तिलक्ष्म्याः शिवायाः पार्वत्या आश्लेष आलिङ्गनं येन । किं च नहि गुणरूपाया मुक्तेराश्लेषो युज्यते, परमेतत्तु कविसमयानुसारि वचः 'नभःपरीरम्भणलोलुभेन' इत्यादिवत्तार्किकमतात्कवीनां समयो धर्मश्च पृथगेवेति नात्र वितर्कः । पार्वत्याः परीरम्भस्तु पतित्वादर्धाङ्गत्वाच्च युक्त एव परोऽन्यः स विंशतितीर्थकृतां निर्वाणकल्याणकत्वेन विख्यातः संमेतनामा भूभृत् शैलोऽस्ति । स कः संमेताचलः ।अर्हतां जिनेन्द्राणाम् अजित-शंभव-अभिनन्दन-सुमति
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy