________________
१३ सर्गः]
हीरसौभाग्यम् ।
पद्मप्रभ-सुपार्श्व-चन्द्रप्रभ-सुविधि-शीतल-श्रेयांस-विमल-अनन्त-धर्म-शान्ति- कुन्थि-मल्लि-मुनिसुव्रत-शान्ति-नेमि-पार्श्वजिनचन्द्राणां विशतिविंशतिसंख्याकान् स्तुपान् स्थूलत्तम्भाकृतिविशेषान्वहति बिभर्ति । यत्र तीर्थकृतां चित्यायां शरीरसंस्कारो भवति तत्रेन्द्राः स्तूपान्कारयन्तीति स्थितिः । तत्रोत्प्रेक्ष्यते-क्षितिभृत: त्रिया खस्पधिनः सर्वपर्वतान् नृपांश्च निजेतुं पराभवितुं दशमौलिवद्रावण इव । संयुगे संग्रामे साधवः सांयुगीनास्तान् रणधुरीणान् संग्रामशौण्डान् विंशति जान्बाहूनिव बिभर्ति । जैत्रराजस्यापि परराजजेतृत्वं युक्तमेव । 'करशाखाः श्रीभतुर्विशोपकाः सकलजननखाडल्यः।दशकंधरनेत्रभुजाः संख्यया विंशतिर्वाच्याः'॥ इति काव्यकल्पलतायाम् ॥ .. यो लक्ष्म्येव जिताः कुलावनिभृतः सोपानकायाश्रिताः
जहुर्यत्परिखीचकार खधुनीं सोऽष्टापदः पर्वतः । तेनः सर्वसुपर्वणां परिभवन्भानुर्ग्रहाणां यथा
नाथो यत्र फणिध्वजः समभवत्काशीति तीर्थ पुनः ॥२२१॥ स ईश्वरवैश्रवणनिवासतया प्रथितः अष्टापदनामा पर्वतः स्फटिकाचलाख्यस्तीर्थ मुक्तिक्षेत्रं योऽष्टापदे खशक्त्यारुह्य देवान्वदते स च तद्भव एव मोक्षं गन्तेति कृत्वा सिद्धिस्थानं वर्तते। स कः । लक्ष्म्या निधिपतिनिवासित्वानिधिश्रिया रजतस्फटिकमयत्वेन गौरिमशोभया वा जिताः पसभूताः सन्तोऽष्टसंख्याकाः कुलावनिभृतः हिमाद्रि-कौश्चमलय-मन्दर-विन्ध्य-मौल्यवत्-सह्य-इन्द्रकीलाख्याः कुलपर्वताः सोपानान्यारोहणान्येव कायाः शरीराणि येषां तादृशा ये अष्टापदाद्रिश्रिताः आगत्य सेवन्ते इव । पुनर्जहुनामा नृपः खधुनीं गङ्गां परिखीचकार यत्परितः खानिको कुरुते स्म ।श्रूयते हि-पुरा श्रीमदजिततीर्थकृत्पितृव्यजभ्रातुः सगरचक्रिणो जहुप्रमुखैः षष्टिसहस्रसंख्यैः पुत्रैः पुत्रप्रेम्णा च पितृप्रदत्तस्त्रीरत्नवर्जत्रयोदशरत्नैः समं यात्रार्थमागतैरष्टापदपर्वते निजपूर्वजभरतका. रितसिंहनिषद्याः प्रासादे चतुर्विंशतिजिनानमस्कृत्य प्रमुदितैः पतितप्रायसोपानानि सजीकृत्य तदद्रिरक्षाकृते पूर्व पर्वतपरितो दण्डरत्नेन सहस्रयोजनो द्वेधा परिखा कृता पुनर्दण्डरत्नानीतमन्दाकिनीपयःप्रवाहेण पूरिता च-इति पुरातनी वृत्तिः । विशेषवि. स्तरस्तु शत्रुजयमाहात्म्यादिभ्यो ग्रन्थेभ्योऽवसेयः इति । पुन: काशी वाराणसी इति नाना तीर्थ वर्तते । परशासने तु 'वाराणसीमरणान्मुक्तिः' इति श्रूयते । यत्र काश्यां फणी नागराजो ध्वजश्चिहं यस्य स नाथो योगक्षेमकरः खामी । अलब्धस्य लब्धि. र्योगः, लब्धस्य परिपालनं क्षेमः, तयोः कर्ता । श्रीपार्श्वनाथ इत्यर्थः । समभवत्समुत्पन्नः । किं कुर्वन् । सर्वसुपर्वणां लौकिकानां हरिहरयक्षादीनां समस्तानां देवानां तेजः प्रतापं परिभवन् अपहरन् तिरस्कुर्वन् वा। क इव । भानुरिव । अत्र यथा इवार्थे । यथा भाखान् सर्वेषां ग्रहाणामुपलक्षणाद्रहनक्षत्रतारकचन्द्राणां तेजो ज्योतिरपहरति जग्रे ज्योतिः संजातः॥