SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ १३ सर्गः] हीरसौभाग्यम् । पतिर्यतीनां जगदुत्तमाङ्गोत्तंसायमानक्रमपद्मयुग्मः । अर्थेन काव्यं कवितव वक्रं संयोजयामास स भाषितेन ॥२१७॥ यतीनां पतिहारसूरिर्भाषितेन वचसा साकं वकं मुखं संयोजयामास युनक्ति स्म संगमयति । क इव । कवितेव । यथा काव्यकर्ता अर्थेन समं काव्यं योजयति । 'भवद्वत्तं स्तोतुर्मदुपहितकण्ठस्य कवितुः' इति नैषधे कवितृशब्द: कवेर्नामापरपर्यायः । किंभूतः सूरिः । जगतां जगज्जनानामुत्तमानानि शिरांसि तेषूत्तंसायमानं शेखरा. यमाणं क्रमौं चरणावेव पद्मौ कमली द्वावपि पुनपुंसकलिङ्गयोर्युग्मं युगलं यस्य । - अथ सूरिः साहिपुरः कानिचित्तीर्थानि कथयति राजन्यत्र पतिवरेव वृणुते कैवल्यलक्ष्मीः स्वयं ___ संघाखण्डलमूर्ध्नि वर्षति पयोऽब्दालीव राजादनी । यस्मिन्पक इव प्रयाति वृजिनं मार्तण्डकुण्डाम्भसा तत्तीथै विमलाचलो विजयते सौराष्ट्रचूडामणिः ॥ २१८ ॥ हे राजन् पातिसाहे, जगत्रयीप्रसिद्ध पापापायव्यपायक्षेत्रं विमल इति नामाचल: पर्वतः विमलाचलोऽधुना शत्रुजय इति नाम तीर्थ विजयते सर्वोत्कृष्टत्वेन वर्तते । किंभूतः । सौराष्ट्राणां यात्रागतशत्रुजयोजयन्तपर्वतरूपतीर्थद्वयविलोकनात्प्रमुदितभरतचक्रवर्तिप्रदत्तदेवदेशाभिधानानां चूडामणि: शिखामणिसदृशः इव । तत्किम् । यत्र विमलाचले पतिवरा खयंवरा कन्येव कैवल्यलक्ष्मीः मुक्तिश्रीः खयमात्मनैव वृणुते वरयति । पुनर्यत्र राजादनी प्रियालद्रुमः । 'नवनवतिपूर्ववारान्यस्मिन्समवासरागादिजिनः । राजादनीतरुतले विमलगिरिरयं जयति तीर्थम् ॥ इति पूर्वाचार्यकृतशत्रुजयस्तुतौ । अब्दालीव कादम्बिनीव संघस्य श्राद्धवर्गस्याखण्डल इन्द्रः संघपतिस्तस्य मूर्ध्नि मस्तकोपरि पयो दुग्धं पानीयं च वर्षति । पुनर्यस्मिन्विमलाचले मार्तण्डकुण्डाम्भसा सूर्यकुण्डजलेन पङ्कः कर्दम इव वृजिनं पापं प्रयाति दूरे गच्छति ॥ . आस्तेऽभ्रंलिहरैवतादिरपरः स्वस्याः पवित्रीकृते - जाने सानुनिभेन सप्तजगतीयं सेवतेऽहर्निशम् । ... शंभोश्चन्द्रकलेव मूर्धनि पुनर्भाति स्म यस्याम्विका यस्मिन्नेमिजिनस्तथा गजपदं कुण्डं पुनीते जगत् ॥ २१९ ॥ __ हे नृप, अपरोऽन्यः अभ्रंलिहः अम्बरंचुम्बी रैवत इति नामा अद्रिः पर्वत आस्ते अहमेवं जाने अवगच्छामि । सप्तजगती सप्तसंख्यया युक्ता जगती। सप्त भुवनानीत्यर्थः । 'त्रिजगतीं पुनती कविसेविता' इति ऋषभनम्रस्तवे । यथा त्रिजगती वस्या आत्मनः पवित्रीकृते पावनीकरणाय सानुनिभेन सप्तशिखरकपटेन अहर्निशं दिवारात्रौ यं गिरिनारगिरि सेवते भजतीव । पुनर्यस्य रैवतामूर्धनि शिरसि शिखरे अम्बिका
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy