________________
काव्यमाला।
नामष्टानयोगभाजां मनोवाकाययोगवतां वा मध्ये मौलिना मुकुटेन शेखरेणामुना सममावाभ्यामुपमीयेत उपमानीक्रियेत ॥
नमश्चिकीर्षयामीषां तीर्थानामिव सर्वतः । पैरोलक्षा मृगाक्षीभिः सममायान्ति मानवाः ॥ २१३ ॥ हे प्रभो, शत्रुजयोजयन्तगङ्गाप्रयागादितीर्थानामिवामीषां सूरीणां . नमश्चिकीर्षया नमस्कर्तुमिच्छया सर्वतः सर्वाभ्यो दिग्भ्यः मृगाक्षीभिः खखस्नीभिः समं साध लक्षापरे परोलक्षाः सहस्रशः मानवाः समायान्ति समागच्छन्ति ॥
दूतास्यपद्महदनिर्गतेति व्रतीशितुः कीर्तिसुरस्रवन्ती । कूलंकषानामिव कामुकेन महीमघोना हृदये न्यधायि ॥ २१४ ॥ इति पूर्वव्यावर्णितखरूपयो तयोः संदेशहारिणोरास्यं वदनमेव पद्महदक्षुल्लहिमवच्छिखरिमध्यगतसहस्रयोजनविष्कम्भपश्चशतयोजनायामो लक्ष्मीदेवतानिवासस्थानं पमानामाह्रदो हृदस्तस्मानिर्गता प्रवर्तिता या व्रतीशितुहीरविजयसूरेः कीर्तिरेवातिविशदत्वात् सुरस्रवन्ती देवनदी गङ्गा सा कूलंकषानां सर्वसरितां कामुकेन अभिलाषुकेण भर्ना इव समुद्रेणेव महीमघोना वसुधावासवेन अकब्बरसाहिना हृदयं मनो वक्षश्च तस्मिन् समुद्रेण वक्षसि साहिना च खमनसि न्यधायि स्थापिता । अवधारितेत्यर्थः ॥ इति मौन्दीकमालमेवाडावर्णितसूरिगुणाः ॥
येनाकरा रोहणवन्मणीनाममी गुणानां गणिरोहिणीशाः । हूतास्ततोऽस्माभिरिहेत्युदित्वा न्यवीवृतन्नीरधिनेमिनाथः ॥ २१५ ॥ हे दूतौ, येन कारणेन अमी साङ्गप्रवचनांधीतिध्वनूचानेषु गणिषु रोहिणीशाश्चन्द्राः सूरीन्दाः गुणानां शमदमसंयमादीनामाकराः खनयः सन्ति । किंवत् । रोहणवद्रलाचल इव । यथा रोहणनामा पर्वतो मणीनामनेकेषां रत्नानामुत्पत्तिस्थानम् । ततः कारणादमी अस्माभिरिह मेवातमण्डले फतेपुरे अस्मत्सनीपे वा आहूता आकारिता नीरधिनेमेः पृथिव्या नाथः खामी पातिसाहिः इत्यमुना प्रकारेणोदित्वा कथयित्वा न्यवीवृतत् नि. वर्ततो मौनमाश्रितवान् ॥ इति दूतौ प्रति साहेः सूरेराकारणागमनहेतूक्तिः ॥
द्वाराणीव महानन्दनगयोः साधुसिन्धुराः। .
कानि वः सन्ति तीर्थानि नृपः पप्रच्छ तानिति ॥ २१६ ॥ नृपोऽकब्बरस्तान् सूरीन् इत्यमुना प्रकारण पप्रच्छ प्रश्नयामास । इति किम् । हे साधुसिन्धुराः, वो युष्माकं कानि किनामानि तीर्थानि सन्ति वर्तन्ते । उत्प्रेक्ष्यते-म. हानन्दनगर्याः सिद्धिपुर्याः द्वाराणि गोपुराणि प्रतोल्य इव ॥
१. नवमसर्गीय १२३ संख्याकश्लोकटिप्पणिवत् 'परस्लक्षा' इति भवेत् , 'पृषोदरादित्वात् यथान्यासमेवास्तु वा.