________________
१३. सर्गः]
हीरसौभाग्यम् । भूमानिमावित्यवदत्ततोऽमी कथं समीयुः पथि कीदृशाश्व । तावप्यवक्तां तमुपागतं खर्बलिद्विषो हन्तुमिवाजनाभम् ॥ २०५ ॥ ततो दूतोक्तेरनन्तरं भूमानकब्बरसाहिरिमौ दूतौ प्रतीत्यमुना प्रकारेण अवददभाषे । इति किम् । हे मौन्दीकमालौ, अमी सूरयः पथि मार्गे कथं केन प्रकारेण समीयुः समागताः । मुद्गलम्लेच्छजातित्वाजैनमार्गानभिज्ञत्वादयं प्रश्नः । च पुनः । कीदृशाः किमाचाराश्च वर्तन्ते । अपि पुनस्तौ दूतौ तं भूपं प्रति अवकां कथयतः स्म । तमुत्प्रेक्षते-बलिन: पराक्रमचतुरङ्गचक्रादिकं बलं भुजवीर्य चमूश्च विद्यते येषां ते बलवन्तो ये द्विषो वैरिणः तथा बलिनामा पातालाधिपः सुरासुरसेव्यमानो वदान्यमौलिः । यन्नाम्ना पातालं बलिसझेति प्रसिद्धम् । स एव रिपुर्दानवेन्द्रत्वात् तांस्तं वा हन्तुं यमातिथोकतु खर्गादुपेतं देवलोकाद्भूमावागतम् । यदुक्तं चम्पूकथायाम्-'कथं च स देशः वर्गान विशिष्यते । यत्र गृहे गृहे गौर्य: स्त्रियः महेश्वरो लोकः । सश्रीका हरयः' इति । 'गौराङ्गयः पार्वती च । महेभ्यः शिवश्च । शोभायुक्तो हस्तश्च । लक्ष्मीयुक्तः कृष्णः' इति तद्वृत्तिः । अतः खर्गस्थत्वम् । अब्जनाभं नारायणमिव । अब्जवन्नाभियस्य । पक्षे अब्ज नाभौ यस्येति व्युत्पत्तिमात्रम् । तत्त्वतस्त्वभिधानमेव ॥
चूर्णैरिव खक्रमपद्मपांसुभिः प्राचीनसूरिप्रकरैः प्रतिष्ठिताम् । सभाजयन्तः प्रतिमामिव क्षमा क्रमाम्बुजाभ्यां पथि संचरन्त्यमी २०६ हे देव, अमी सूरयः खाभ्या क्रमाम्बुजाभ्यां पथि चरणकमलाभ्यां मार्गे संचरन्ति सम्यग्रीत्या प्रचलन्ति । उत्प्रेक्ष्यते-प्रतिमां परमेश्वरमूर्तिमिव क्षमा क्षोणी सभाज. यन्तः पूजयन्त इव । सभाजनशब्दः पूजार्थेऽपि । यथा नैषधे-'सभाजनं तत्र स. सर्ज तेषां सभाजने पश्यति विस्मिते सा' इति । 'सभाजनं पूजाम्' इति तदृत्तिः । तथा क्रियाकलापेऽपि-'सभाजनार्थे सभाजयति' । प्रतिमां किंभूताम् । प्राचीनसूरिप्रकरैः पूर्वाचार्यनिचयैः स्वक्रमपद्मानामात्मनां पादारविन्दानां पांसुभिः रजोभिः कृत्वा प्रतिष्ठिताम् । उत्प्रेक्ष्यते-चूर्णैर्वासयोगैरिव पूज्यतया स्थापिताम् ॥
श्रेणीं सतामिव विमुक्तसमग्रदोषां ___वल्माममी विदधते सकृदेव देव । आराधयन्ति विधिवद्विधृतावधाना
योगं विधूतवनिताद्यखिलानुषङ्गम् ॥ २०७ ॥ हे देव, अमी गुरवः सकृदेव एकवारमेव वल्मामाहारं विदधते कुर्वन्ति । किंलक्षणाम् । सतामुत्तमानां श्रेणीमिव । विमुक्तसमप्रदोषां त्यकाः सर्वेऽप्याध्यकर्मिकाः सप्तचत्वारिंशन्मिता अशनदोषा एतावता नवकोटिभिर्विशुद्धां नवकोटय उच्यन्ते । खयं न कुर्वन्ति परैर्न कारयन्ति परं कुर्वन्तं नानुमोदयन्ति इति नवकोट्यस्ताभि