________________
६३८
काव्यमाला |
नामधेयावभिधानौ शासनहारिणौ दूतौ यवनमुद्गलजातिषु मध्ये मेवडा इति संज्ञकौ इतो युष्माकं समीपादजिहाताम् गतवन्तावास्ताम् । उत्प्रेक्ष्यते - मूर्तिमन्तौ मनुष्यवपुर्भाजौ लेखौ काङ्गलौ स्फुरन्माने इव पुनरुत्प्रेक्ष्यते । मूर्तिमन्तौ लेखौ देवाविव देवा हि न केनचिच्चक्षुषा लक्ष्यन्ते । अतः पार्थिवशरीरभाक्त्वाद्विलोचनगोचरौ । किंलक्षणों । कामं स्वेच्छया अतिशयेन च दिव्यया देवगल्या चरणं व्रजनं चारों गमनं ययोस्ती ॥
तैः शासितुः शासनतः पृथिव्या इतौ पुरस्तादुपसेदतुस्तौ । वसुंधराशेषविशेषवृत्तिं चिद्गोचरीकर्तुमिवास्य नेत्रे ॥ २०२॥
तौ दूतौ पुरस्तात्सा हेर उपसेदतुः आगतवन्तौ । किंभूतौ । पृथिव्या भूमेः शासितुः पालयितुः पातिसाहेः शासनत आदेशात्तैः सभ्यैः सभासद्भिः हूतावाकारितौ । उत्प्रेक्ष्यते - वसुंधरायाः समस्त क्षितिमण्डलस्याशेषां समग्रां विशेषवृत्तिं न्यायान्यायकारिशिष्टाशिष्टमित्रामित्रस्वभावोदन्तसूचयित्रीं वार्ता चिगोचरीकर्तुं ज्ञानविषयतां विधातुम् । ज्ञातुमित्यर्थः । अस्याकब्बरसाहेर्नेत्रे नयने इव । यथा नेत्राभ्यां कृत्वा जनेन सर्वमप्यालोक्यते तथा दूताभ्यां राज्ञा परमण्डलोदन्ताद्यखिळं विज्ञायते । 'चरलोचना हि राजानः' इति श्रुतिः । यदुक्तम्- 'चरैः पश्यन्ति राजानः सुहृदा व्यवहारिणः । देवाः पश्यन्ति ज्ञानेन सर्वेऽन्ये चर्मचक्षुषा ॥' ' वणिक्पुत्रैर्महेश्वराः' इति पाठः । अथ वा प्रतिभाविषयं विधातुं चिच्छब्देन बुद्धिरपि । 'प्रेक्षाचिदुपलब्धयः' इति हैम्याम् ॥
मुखं मृगाङ्कं मिलितुं स्वबन्धोर्लब्धोदयं वारिरुहे इवैते । पाणी प्रणीय प्रणयेन मध्येगोधीति धात्रीशमवोचतां तौ ॥ २०३ ॥
तौ दूतौ धात्रीशं साहिं प्रति इत्यमुना प्रकारेण अवोचतां वदतः स्म । किं कृत्वा । प्रणयेन स्वस्वामित्वादिसंबन्धस्नेहेन । भक्तेनेत्यर्थः । अथ वा आदेशयाचनार्थम् । 'प्रणयः स्नेहयाच्ञयोः' इत्यनेकार्थः । मध्ये गोधि भालान्तराले पाणी हस्तौ प्रणीय कृत्वा । ललाटेऽञ्जलिं विधायेत्यर्थः । उत्प्रेक्ष्यते - स्वस्यात्मनो बन्धोः सकाशाल्लब्धः संप्राप्त उदयो येन । सूर्यज्योतिरधिगत्य चन्द्रोऽभ्युदयतीति कविसमयः । यथा रघुकाव्ये – 'पुपोष वृद्धिं हरिदश्वदीधितेरनुप्रवेशादिव बालचन्द्रमाः' इति । तादृशं मुखं मृगाङ्कं वदनमेव चन्द्रं मिली तुमेते समायाते वारिरुहे पद्मे इव ॥
आदिश्यतां देव निदेश्यमित्थं निर्दिश्य तौ संश्रयतः स्म तूष्णीम् । धाराधरस्येव ऋतोर्विरामे नभोम्बुपाम्भोदसुहृच्छकुन्तौ ॥ २०४ ॥
हे देव, निदेश्यं कथनार्ह वक्तव्यमादिश्यतां प्रसाद्यताम् । इत्यमुना प्रकारेण निर्दिश्य विज्ञाप्य तौ दूतौ तूष्णीं मौनं संश्रयतः भेजाते । काविव । नभोम्बुपाम्भोदसुहृच्छकुन्तौ यथा धाराधरस्य ऋतोर्वर्षाकालस्य विरामे व्यपाये । शरत्समये इत्यर्थः । चातकमयूरविहंगमौ मौनमाश्रयेते ॥