________________
काव्यमाला।
निर्दोषां तथा अपगुणाय याताम् । पुनरमी विधूतो दूरं निरस्तो वनिता नारी भादौ यस्य तादृशोऽखिल: समस्तोऽप्यनुषङ्गः सङ्गः परिचयो यत्रैवं स्यात्तथा विधिवदागमोक्तेन विधिना योगं यमाद्यष्टप्रकारसंगतमवध्यानविशेषं मनोवाकायादीनां खखव्यापारेभ्यो नियमनरूपं वा योगमाराधयन्ति । किंभूता अमी। विधृतं योगे एव निहितम् अथ वा विशेषेण धृतं संसारानियतायामवधान ध्यानं मनो वा यैः ।
विश्वे वेश्मनि तारमौक्तिकनमश्चन्द्रोदयमाजिनि ___ ज्योतिस्तैलभृतौषधीप्रियतमे स्नेहप्रियोद्भासिनि । आश्लिष्योपशमश्रियं निजभुजागण्डोपधानारिते
पयके जगतीतले सुखममी भूमीशवच्छेरते ॥ २०८ ॥. हे साहे, अमी सूरयः भूमीशवद्रूपाला इव विश्वे वेश्मनि जगन्नाम्नि निकेतने भु. वने एव भवने वा जगतीतले भूमेरुत्सङ्गरूपे पर्यके पल्यङ्के शय्यायामुपशमनाम्नीं श्रियं लक्ष्मी नामाङ्गनामाश्लिष्य गाढमालिङ्गय सुखं निर्भयं मनःखास्थ्ययुतं यथा स्यात्तथा शेरते खपन्ति निद्रासुखमनुभवन्ति । पर्यङ्के किंभूते । निजभुजा खबाहुरिव गण्डोप. धानं गल्लमसूरकं तेनाङ्किते कलिते । किंभूते वेश्मनि । तारास्तारका उपलक्षणात् ग्रहनक्षत्राणि एव मौक्तिकानि यत्र तादृशं नम आकाशमेव चन्द्रोदय उल्लोचस्तेन भ्राजते इत्येवंशीले । पुनः किंभूते । कान्तिोतिरेव तैलं स्नेहस्तेन भृतः पूरितः य औषधीप्रियतमः चन्द्रः । 'नवोदयं नाथमिवौषधीनाम्' इति रघौ । स एव मेहप्रियः दीपस्तेनोत्प्राबल्येन भासते दीप्यते सहोद्योतेन शालते इत्येवंशीले ॥ . बाद्याबाह्यजिघांसुघातुकतपस्तेजोभिरेभिर्भुवो .
जम्भारे गगनार्धगोगणधरैधिक्कारतां लम्भितः। . शत्रून्प्रत्यपकर्तुमम्बुधिशयं संशीलतीवानिशं
यायादेष कुतः सरस्वति न देणाक्ष्योषामुखे ॥ २०९ ॥ हे भुवो जम्भारे क्षोणीन्द्र, एभिर्गणधीरविजयसूरिभि स्या बहिर्भवाः कुदृक्प्रमुखाः अबाह्या अन्तरङ्गाः रागद्वेषकषादयो जिघांसवो द्वेषिणस्तेषां धातुकानि हिंसनशीलानि यानि षष्टाष्टमादिविकृष्टतपांसि तेषां तेजांसि प्रतापास्तैः साधनैः कृत्वा । तेजःशब्देन प्रतापोऽप्युच्यते । यथा नैषधे–'एतस्योत्तरमद्य नः समजनि उत्तेजसां लाने' इति । 'तव प्रतापानामतिक्रमणे' इति तद्वृत्तिः । धिकारतां पराभवभावं लम्भितः प्रापितः सन् गगनाध्वगः सूर्यः । उत्प्रेक्ष्यते-शत्रून् सूरिप्रतापरूपानिजविजयित्वात् खवैरिणः प्रत्यपकर्ते पराभवं विधातुमम्बुधिशयं समुद्रशे(शयि)तारं विष्णुमनिशं निर. न्तरं शीलतीव सेवते इव । यः शत्रुभूय परं पराभवति स तेन दैत्य एवोच्यते । वतो विष्णोर्दैत्यनिषूदनत्वेन तत्सेवनं युक्तमेव । एवं चेन्न तर्हि एष भानुरेणाङ्कस्य