SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ ६३४ . काव्यमाला। पुरंदर, त्वया श्रीमता नियुक्तः प्रसादितानुशिष्टिः स साहिबखानो मह्यं बहु धनमदिशत् यच्छन्नासीत् । क इव । मेघ इव । यथा हरिणा वासवेन वर्षितुं समादिष्टाः घनाघनाः बहु प्रचुरतरं नीरं दिशन्ति प्रददते । जनेभ्य इति शेषः । 'जानामि त्वां प्रवरपुरुषं कामरूपं मघोनः' इति मेघदूते । 'इन्द्रादिष्टा हि मेघाः भूमौ वर्षन्ति' इति श्रुतिः । परमयं विशेषः । निखिलं समस्तमनुषङ्ग रामाद्रविणादिसङ्गं मुश्चति दूरं त्यजति तादृशेन . मया किंचित्किमपि दीयमानं नाप्राहि नादायि न गृह्यते स्म ॥ अहो निरीहैर्महतां वतंसैर्भूर्भूषितामीभिरिवांशुभिर्योः। . तज्जन्मभिः पङ्कमिवारविन्दैर्भवं परित्यज्य पृथग्भवद्भिः ॥ १८८ ॥ .. अहो इत्याश्चर्ये । सदस्या लोका वा । पश्यत कौतुकं परैरदीयमानमपि जगति के नाद्रियन्ते । एते तु बह्रागृहीता अपि सर्वेषामभिलषणीयानामपि स्वर्णाश्वगजादि नाददते . तस्मादमीभिः सूरीन्द्रः कृत्वा भूरशेषापि क्षोणी विभूषिता अलंकृता पवित्रिता वा। कैरिव । अंशुभिरिव । यथा अंशुभिः सहस्ररश्मिभिः । 'आदित्यः सवितार्यमा खरसहस्रोध्णांशू रविः' इति हैम्याम् । द्यौगंगनवीयी शोभिता । किंभूतैः अमीभिः । निर्गता जगजन्मकलत्रपुत्रद्रविणराज्यादियावत्पदार्थसार्थेषु ईहा वाञ्छा येषाम् । निःस्पृहैरित्यर्थः । पुनः किंभूतैः । महतां समस्तसाधुजनोत्तमाङ्गेषु अवतंसैः शेखरायमाणैः । पुनः किंभूतैः। भवं संसार परित्यज्य निर्मुच्य पृथग्भिन्नैर्भवद्भिः । कैरिव । अरविन्दैरिव । यथा पद्मः पडू जम्बालं परित्यज्य पृथग्भूयते । किंभूतैः अमीभिः अरविन्दैश्च । तजन्मभिः तत्र भवे पङ्के वा भवित्वात्पङ्कजत्वाजन्म उत्पत्तिर्येषां तैः ॥ 'चित्ते दधच्चित्रमिति क्षितीन्द्रः पुनर्युनक्ति स्म मुखं स वाचा । सौरभ्यविभाजिविज़म्भिताजं घनात्ययो हंसमृगीदृशेव ॥ १८९ ॥ स क्षितीन्द्रः पातिसाहिः पुनर्वाचा वाण्या मुखं खवदनं युनक्ति स्म संयोजयामास । किं कुर्वन् । इत्यमुना प्रकारेण चित्ते खमानसे चित्रमाश्चर्य दधद्धारयन् मुखं वाचा युयोज । क इव । घनात्यय इव । यथा शरत्काल: सौरभ्येन सौगन्ध्येन विभ्राजते शोभते इत्येवंशीलं तथा विजृम्भितं विकखरमजं कमलं हंसमृगीदृशा राजमराल. महिलया युनक्ति ॥ ग्रीष्मागमेनेव मयाध्वगानां वृथा व्यथा वः पथिजा व्यसर्जि । एतत्पुनर्गोधनवन्न किंचिच्चक्रे स्वहृद्गोचरसंचरिष्णुः ॥ १९० ॥ हे सूरयः, वो युष्माकं मया वृथा मिध्यैव पथिजा मार्गजनिता व्यथा शीतातपल्लूकाकण्टकलमादिका पीडा व्यसर्जि विश्राणिता । दत्तेत्यर्थः । केनेव । ग्रीष्मागमेनेव यथा निदाघसमयप्रादुर्भावेन अध्वगानां पान्थानां व्यथा तापतृषादिका विसृज्यते. दीयते। पुनरेतच्चक्रमकादिकं किंचित्किमपि मया खस्यात्मनः हृदो मानसस्य गोचरे विषये संचरिष्णुः संचरणशीलं हृदये वर्तमानं न चक्रे न कृतम् । किंवत्। गोधनवत् । यथा
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy