________________
१३ सर्गः]. हीरसौभाग्यम् । 'आकारणं हवो इतिः' इति हैम्याम् । किमिव । गोशीर्षसौरभ्यमिव । यथा चन्दनहुमस्य परिमलो अनिलेन वायुना हूयते भूमण्डलान्तरमानीयते ॥ इति साहिकृतकृतला. गमादिप्रश्नप्रत्युत्तराणि ॥
भूमानथाभाषत दूरदेशाधूयं समेताः कथमेकपंद्याम् । महेन्द्रवन्मत्तमतङ्गजेन रथेन पाथोरुहबन्धुवद्वा ॥ १८ ॥ रेवन्तवद्वा तुरगेण दिव्ययानेन वृन्दारकवृन्दवद्वा । स प्रोचिवानुज्झितयानमत्र चरन्क्रमाभ्यामहमाजगाम ॥ १८५॥ अथ कुशलागमादिकथनानन्तरं भूमान्पृथ्वीपतिरभाषत वदति स्म। हे सूरीन्दाः, यूयमेकपद्यां मार्गे। पदव्येकपदी पद्या पद्धतिर्वम' इति हैम्याम् । कयं केन प्रकारेण समेताः दूरदेशात् अत्रागताः । तानेव प्रकारान्दर्शयति- िमत्तो मदोदयो यो मतङ्गजो गजेन्द्रो गजराजः प्रशस्तहस्ती तेन समेताः । किंवत् । महेन्द्रवत् । यथा पुरंदरो मत्तमतङ्गजेन ऐरावणेन समेति । वाथवा किं रथेन स्यन्दनेन 'वहल' इति प्रसिद्धेन अध्वनि समेताः । किंवत् । पाथोरुहबन्धुवत् । यथा कमलसुहृद्भास्करो रथेन मरुद्रथेन समागच्छति । वाथवा तुरगेन प्रवरवाजिना कृत्वा समायाताः । किंवत् । रेवन्तवत् । यथा रेवन्तः अर्करेतोऽजस्तुरगेण समायाति तस्य हयवाहनत्वेन । 'रेवन्तस्त्वर्करेतोऽज: प्लवगो हयवाहनः' इति हैम्याम् । वाथवा दिव्येन मनोरमेण यानेन शिविकादिना वाहनेन समीयिवासः । किंवत् । वृन्दारकवृन्दवत् । यथा वृन्दारकाणां निर्जराणां वृन्दः समुदायः दिव्येन देवसंबन्धिना विमानेन समेति । इत्युक्तेऽनन्तरं स सूरिःप्रोचिवान् कथयति स्म। हे साहे, अहमत्र श्रीमतां समीपे उज्झितं संत्यकं यानं तुरगवाहनादिकं येन तादृशः क्रमाभ्यां चरणाभ्यां चरन् प्रचरन् आजगाम आगतवान् ॥ युग्मम् ॥
भूपोऽप्युवाचेति न साहिबाख्यखानेन युष्मभ्यमदायि किंचित् । तुरङ्गमस्यन्दनदन्तियानजाम्बूनदाद्यं दृढमुष्टिनेव ॥ १८६ ॥ अपि पुनर्भूपः पातिसाहिः इत्यमुना प्रकारेण प्रोवाच जगाद । पृच्छति स्मेत्यर्थः । इति किम् । हे सूरीन्द्राः, दृढमुष्टिना कृपणेनेव साहिब इत्याख्या नाम यस्य तादृशेन खानेन मम उम्बरकेण सामन्तेन तुरङ्गमा अश्वाः, स्यन्दना रथाः, दन्तिनो गजाः, यानानि शिबिकादीनि, जाम्बूनदं सुवर्णम्, उपलक्षणाद्रूप्यादिसंग्रहः, अमूनि वस्तूनि आद्यानि प्रथमानि मुख्यानि वा यत्र तादृशं किंचित्किमपि वस्तु युष्मभ्यं नादायि न दत्तम् ॥ इत्याक्षेपप्रश्नवाक्यम् ॥
गुरुर्जगौ बह्वदिशत्स मह्यं त्वया नियुक्तो हरिणेव मेघः । पुनर्न किंचिन्निखिलानुषणमुचा मयाग्राहि महीमहेन्द्र ॥ १८ ॥ ततः साहिप्रश्नानन्तरं गुरुहीरसूतिर्जगौ भाषते स्म । हे साहे हे महीमहेन्द्र पृथिवी
to