________________
१३ सर्गः] हीरसौभाम्यम् । गोकुलं खहृदा निजमनसा । खेच्छयेत्यर्थः । गोचरे गवां चरणोचिताचलाओं सम्यक् खरुचितं यथा तथा चरणशीलं भक्षणखभावं क्रियते । अथ वा खं मदीयं धनं भूमिः नृपस्य भूवनत्वात् । 'खात्पालधनभुग्नेतृपतिमन्वर्थकादयः' इति हैमीवचनात् । तस्या हृदि मध्ये यो गोचरो गवां चरणस्थानं तत्र संचरणशीलमित्यर्थः ॥ विघ्नाय जज्ञे भगवत्समाधेरहं पयोवाह इवांशुभासाम् । युष्माकमाकस्मिकदुःखजन्मा तत्प्रत्यवायोऽजनि मे महीयान् ॥१९१॥ हे सूरयः, अहं भगवतां पूज्यानां ज्ञानमाहात्म्यादिगुणगणवतां युष्माकं समाधेः खास्थ्यस्य ध्यानस्य वा विघ्नाय अन्तरायकृते जज्ञे संजातोऽस्मि । क इव । पयोवाह इव । यथा जलवाहो मेघः अंशुभासां सूर्य किरणानां विघ्नाय प्रचारप्रत्यूहाय। आवरणा. येत्यर्थः । जायते तत्कारणायुष्माकं श्रीमतामकस्मादज्ञातं भवमाकस्मिकमतर्कितोपपन्नं वा यदुःखमसातं तस्माजन्मोत्पत्तिर्यस्य तादृशो महीयानतिगुरुर्मे मम प्रत्यवायोऽपराधः पापं वा अजचि संजायते स्म ॥ इत्याकारणाद्यपराधोद्भावनम् ॥
क्ष्माचक्रचक्रीत्यथ थानसिंहमुद्दिश्य जग्राह वचो वचस्वी। हितैषिणा कल्प इवादसीयः पन्थाः कथं नो कथितः पुरो मे ॥१९२॥
अथ गुरोः स्वप्रत्यवायोद्भावनानन्तरं वचस्खी वाचोयुक्तिमान् माचक्रस्य निखिलभूमीमण्डलस्य चक्री सार्वभौमोऽकब्बरसाहिः थानसिंहमुद्दिश्य संमुखमालोक्य इत्यमुना प्रकारेण वचो वाग्विलासं जग्राह । वदति स्मेत्यर्थः । हे स्थानसिंह, त्वया भवता मे मम पुरोऽग्रे एषामयमदसीयः एतत्संबन्धी । 'नासादसीया तिलपुष्यतूणम्' इति नैषधे । एकाशनपादचारादिको मार्गः साध्वाचारो वा कथं कुतः कारणात् नो कथितो न निवेदितः । केनेव। हितैषिणेव । यथा हितं खस्य परस्य वा जनस्य इष्टापत्तिमिच्छसभिलषतीत्येवंशीलेन महात्मना पुंसा कल्पः सम्यक्प्रवृत्तिरूप आचारः कथ्यते ॥
इत्यप्यवक्किं न पदप्रचारैः प्राप्स्यन्ति दुःखं यदिहाजिहानाः । निगद्य भूमानिति शारदीनसारङ्गवन्मौनमधत्त वक्रे ॥ १९३ ॥
अपि पुनस्त्वमित्यप्येतदपि किं केन प्रकारेण नाव न कथितवान् । इति किम् । यदेते सूरीन्द्राः इह दूरदेशे वर्तिनि मेवातमण्डलालंकारहारसकलकमलासंकेतनिकेतफवेपुरमाश्रयतां श्रीमतां संनिधानि पादप्रचारैः खचरणचक्रमणैः आजिहाना आगच्छन्तः । 'स्वयं वरस्याजिनमाजिहानाम्' इति नैषधे । 'अजिनमागच्छन्तीम्' इति तद्वत्तौ । 'आगमने गमनार्थाः समभ्युपाझ्यः पराः कथिताः' इति क्रियाकलापे । 'ओहाङ् गतौ' इत्यस्य आनश्प्रत्यये जिहाना आयोगे आजिहाना आगमनार्थ इति । दुःखमसातं प्राप्स्यन्ति लप्स्यन्ते । एतन्मया प्रोच्यमानं मम कथं न स्मारितम् । भूमानिसमुना प्रकारेण निगद्य कथयित्वा वक्रे खमुझे मौनं तूष्णीभावमधत्त दधौ । किंवत्। शारदीन