________________
६३०
काव्यमाला।
ज्ञानमेव भानुः सूर्यः तस्याभ्युदयार्थमुदयाचलं पूर्वपर्वतमिव । पुनरुत्प्रेक्ष्यते-चित्राणां जगदाश्चर्यकारिणीनां वाचां वचनवैचित्रीणां सप्तर्षिपुत्रं किमु बृहस्पतिमिव । 'वृहस्पतिः सुराचार्यो जीवश्चित्रशिखण्डिजः' इति हैम्याम् । पुनस्तत्रैव 'सप्तर्षयश्चित्रशिखण्डिनः' । तथा नैषधे–'विचित्रवाक् चित्रशिखण्डिनन्दनः' इति वृहस्पतेः सप्तर्षिपुत्राभिधानम् । यथा चित्रशिखण्डिनन्दनस्तथा सप्तर्षिसूनुरपीति । पुनरुत्प्रेक्ष्यते-लब्धयस्तपःप्रादुर्भूतशक्तिविशेषास्ता एव मणीनां गणास्तेषामाकरं खानिमिव ॥ आदितस्त्रयोदशभिः कुलकम् ॥ इति हीरविजयसूरिवर्णनम् ॥
तं व्याजहारेति महीमहेन्द्रो जागर्ति वातै खलु युष्मदङ्गे।। हिमं सरःपद्ममिवाध्वजन्मा क्लमोऽपि नाकामति वः शरीरम् ॥१७॥ . महीमहेन्द्रः अकब्बरपातिसाहिः तं सूरिमित्यमुना प्रकारेण व्याजहार व्यक्ति स्म । इति किम् । हे सूरे, खलु निश्चितं युष्मदने श्रीमतां देहे वार्तमनामयं समाधिर्जागर्ति विद्यते । जागीत्यत्र सत्तार्थः । यतः–'सत्तायामस्त्यास्ते जागर्तिर्विद्यते ध्रियते' इति क्रियाकलापे । अपि पुनरध्वजन्मा दूरमार्गोल्लङ्घनोद्भूतः क्लमः परिश्रमो वो युष्माकं शरीरं नाकामति न बाधते । किमिव । हिममिव । यथा सरःपमं तटाकोत्पनं कमलं तुहिनं व्यथयति ॥ इति शारीरकसुखप्रश्नः ॥ तपांसि वः सन्त्यनघानि कचिन्नास्ते समाधेः प्रतिबन्धकश्च । मनः प्रसन्नं पुनरस्ति नीरं पद्माकरस्येव घनव्यपाये ॥ १७६ ॥ हे मुनीन्दो, पुनवों युष्माकं तपांसि अनघानि प्रशस्यानि असौ तपखी तीव्र तपस्तप्त्वा मास्मद्राज्यादि वैभवं गृह्णीतादिति भावाद्विघ्नकर्तृकाणामभावात् 'निरन्तरायानि सन्ति विद्यन्ते । पुनः कश्चन धर्मद्वेषी वो युष्माकं समाधेया॑नस्य प्रतिबन्धको विघ्नविधाता नास्ते न वर्तते। पुनर्युष्माकं मनः प्रसन्नमनाविलमस्ति । किमिव । नीरमिव । यथा धनव्यपाये शरत्समये पद्माकरस्य कमलकुलालंकृतसरसो जलं प्रसन्नमतिखच्छं स्यात् ॥ इति साध्वाचारादिकुशलप्रश्नः ॥
का सा पुरी प्रापि दशां दमीशैर्वसन्तनिर्मुक्तवनानुरूपाम् । अहो अहोभिर्बहुभिः पयोदैरिवादिमै रियमन्वकम्पि ॥ १७७ ॥ अहो इति संबोधनप्रश्ने । हे सूरे, सा का पुरी किंनानी नगरी या पुरी दमिनां त. पःक्रियादिकष्टैः खात्मदमनपराणां साधूनामीशैर्नायकैः श्रीमद्भिः वसन्तेन मधुसमयेन निर्मुतस्य फलपुष्पपल्लवदलादिविरहिततरुगणस्य वनस्यानुरूपां सदृशीं दशामवस्था प्रापि लम्भिता । तदभिधानं भाषणीयमित्यर्थः । अहो सूरीन्द्राः, पुनरादिमैः प्रथमैः पुष्करावर्तनामिः पयोर्मेधैरिव । इयमास्माकीना मेवातमण्डलसंबन्धिनी वा भूः पृथिवी बहुभिरनल्पैः अहोभिर्दिवसैरन्वकम्पि अनुगृहीता पावनीकृता इत्यागमादिप्रश्नः ॥ इति साहिकृतकुशलालापप्रश्नः ॥