________________
१३ सर्गः] हीरसौभाग्यम् ।
६२९ मध्ये पश्चदशं रत्नमिव । वा पुनः शरत्सुधांशोः शारदीनचन्द्रमसः कलासु पञ्चदशकलासु मध्ये षोडशमिव । पञ्चदशसु तिथिषु पञ्चदशैव कला वर्धन्ते, षोडशी कला तु शिवमस्तके अस्तीति श्रुतिः । अत एव नैषधे नलेन प्रोक्तम्-'भीमजा च हृदि मे परमास्ते जीवितादपि धनादपि गुवौं । न खमेव मम सार्हति यस्याः षोडशामपि कलां किल नोवीं ॥' इति । तथा 'परधार्मिकतिथयश्चन्द्रकलाः पञ्चदश भवन्तीह' इति काव्यकल्पलतायाम् । तथा तत्रैवोदाहरणम् । 'तिथिं तिथिं प्रति स्वर्गिभोग्यैकैककलाधिका । कला यस्येशपूजासीदेकः श्लाघ्यः स चन्द्रमाः ॥' इत्युक्तः । चन्द्रे तु पश्चदशैव कलाः ॥
किं राजधानी शममेदिनीन्दोर्धवं धुनीनामिव वा समाधेः । संकेतस व गुणावलीनां धर्मस्य साम्राज्यमिवाहतस्य ॥ १७२ ॥ उत्प्रेक्ष्यते-शममेदिनीन्दोः उपशमनानो वसुधासुधारुचेः राज्ञः राजधानी सुखवासनगरी च । 'कुलकमायाता पुरी राजधानी' इति हैम्याम् । वा पुनः समाधेयानस्य विशेष्यैकलयनिष्ठत्वेन यद्धयानं समाधिस्तस्य धुनीनां नदीनां धवं भर्तारं समुद्रमिव । पुनरुत्प्रेक्ष्यते-गुणानामावलीनां श्रेणीनां संकेतसझेव । यत्र कामुकैर्मिलितुमुत्सुकैरपरैर्वा मिलनार्थ संकेतस्तत्स्थानं संकेतगृहं प्रोच्यते । पुनरुत्प्रेक्ष्यते-अर्हतामतीतानागततीर्थकृतामयमाईतः स चासौ धर्मश्च । जैनधर्मस्येत्यर्थः । साम्राज्यमिव । अनेकान्मू
र्धाभिषिक्तानमयित्वा यत्रैश्वर्य क्रियते तत्साम्राज्यम् । अत्र तु बहुसामन्तभूपनमनं स्फु. टमेवास्ते इति साम्राज्यमेव ॥
उरो मुरारेः सुभगत्वलक्ष्म्याः कृपामृतस्येव पति तमीनाम् । : भाग्यस्य वा कोशमिवाक्षयन्तं क्षान्तिस्रवन्त्या इव सानुमन्तम् ॥१७॥
उत्प्रेक्ष्यते-सुभगत्वलक्ष्म्याः सौभाग्यश्रियाः वासाथै मुरारेर्नारायणस्य उरो वक्षःस्थलमिव । यदुक्तं नैषधे-'हित्वा दैत्यरिपोरुरः खभवनं शून्यत्वदोषस्फुटा-' इति विष्णोर्वक्षो लक्ष्म्यावासमिति । पुनरुत्प्रेक्ष्यते--कृपा सकलजन्तुजातेषु करुणा सैवामृतं सुधारसस्तस्य तमीनां पतिं चन्द्रमण्डलमिव । पुनरुत्प्रेक्ष्यते-भाग्यस्य शुभकर्मोदयस्यं अक्षयन्तं सर्वथापि न व्ययीभावं भजन्तं कोशं भाण्डागारमिव । पुनरुत्प्रेक्ष्यतेक्षान्तिः क्षमा सैव स्रवन्ती नदी तस्याः सानुमन्तं पर्वतमिव । यतो भूभृतः सकाशात्सरितः प्रवहन्ति ॥
यशःसुमस्येव सुपर्वसालं किं ज्ञानभानोरुदयाचलं वा । सप्तर्षिपुत्रं किमु चित्रवाचामिवाकरो लब्धिमणीगणानाम् ॥ १७ ॥
उत्प्रेक्ष्यते-यशः सर्वजगजनजेगीयमानस्फीतकीर्तिरेव सुमं प्रसूनं तस्य सुपर्वसालं कल्पद्रुममिव । सदा विकाशपरिमलादिवाहुल्यात्सुरतरुकुसुमकथनम् । पुनरुत्प्रेक्ष्यते