________________
१३ सर्गः] हीरसौभाग्यम् ।
इदं विनिर्दिश्य समुद्रकाञ्चीरुच्ये मुखे तन्वति मौनमुद्राम् । धर्मस्य धात्रीमिव वृत्रशत्रुर्वाचंयमानां स उवाच वाचम् ॥ १७८ ॥ वाचंयमानां सम्यग्वारगुप्तिमतां वृत्रशत्रुर्यतीन्द्रः स हीरविजयनामा सूरिर्वाचं थाणीमुवाच वक्ति स्म । साहिप्रश्नानामुत्तरं ददाति स्मेत्यर्थः । उत्प्रेक्ष्यते--सूरिवाणी । धर्मस्य सुकृतस्य धात्रीमुपमातरमिव वर्धयित्री भूमिमिव । स्थानं वा । कस्मिन् सति । इदं पूर्वनिगदितं कुशलादिप्रश्नं विनिर्दिश्य कथयित्वा समुद्रकाश्या जलनिधिमेखलाया भूमिभामिन्या रुच्ये भर्तरि । 'रुच्यो वरयिता धवः' इति हैम्याम् । अकवरपृथिवीपतौ मुखे खवदने मौनमुद्रां जोषेण कृत्वा मुद्रणां तूष्णीकां तन्वति कुर्वति सति ॥
क्ष्माकान्तकोटीरमणीमरीचिमधुव्रतापीतपदारविन्द । अवेहि वात घुसदामिवाप्तवचःसुधापानविधायिनां नः ॥ १७९ ॥ क्ष्माकान्ता भूमीवल्लभा अन्ये राजानस्तेषां कोटीरा मौलिमुकुटास्तेषां मणीनां विविधरत्नानां मरीचयः कान्तयः एव मधुव्रता भ्रमरास्तैरा सामस्त्येन पीते चुम्बिते सेविते वा पदारविन्दे चरणकमले यस्य तस्य संबोधने । यदुक्तम्-'अवताद्वो हयग्रीवः कमलाकर ईश्वरः। सुरासुरनराकारमधुपापीतपत्कजः ॥' इति सारस्वतव्याकरणप्रान्तनमस्कृतौ आपीत इति । हे नृप, नः अस्माकं वार्तमनामयमवेहि जानीहि । केषामिव । यथा द्युसदां सुराणां देवानामनामयं भवेत् । तत्र हेतुमाह-आप्तानां तीर्थकृताम् । 'पुरुषोत्तमवीतरागाप्ताः' इति हैम्याम् । वचांसि वाक्यानि आगमा वा। 'आप्तोक्तिः समयागमौ' इति हैम्याम् । तामि त एव वा सुधा अमृतरसास्तेषां पानं विदधे इत्येवंशीलास्तेषाम् । 'आप्तो लब्धे च सत्ये च' इत्यनेकार्थः । 'सत्ये अधिसंवादके बान्धवेऽप्याप्तः' इति चूर्णिः । तथा 'आप्तप्रत्ययितौ समौ' इति हैम्याम् । आप्तस्य पालकत्वेन विष्णोः खामित्वेनेन्द्रस्य वा वचसा सुधापानं कुर्वते इत्येवंशीलानां सुराणां तदेवाप्तत्वमुच्यते । सृष्टिप्रारम्भे ब्रह्मणा सुरा नराश्च विदधिरे, तदर्थे भोज्यकृते धान्यं सृष्टं नरैरङ्गीकृतम् , तदनिच्छद्भिर्देवैर्ब्रह्मणा प्रहितैः सृष्टिपालकत्वेन विष्णुर्याचितः, ततो विज्ञाय कृष्णेनापि मन्थाचलेन पाथोधि निर्मथ्य पीयूषमुत्पाद्य तेषां पाणौ निजाग्रजन्मने आप्ताय शक्राय प्रहितम् , ततो निजनायकत्वेनाप्तीभूतस्य तस्येन्द्रस्य वचसा सुधाहारा आसन्इति वैष्णवी श्रुतिः । तेन द्वयोरपि सुधापानविधायिता ॥
अश्वानिवाक्षाणि निरीहभावै रश्मिनजैर्यन्त्रयतां वयं नः । तपांसि निर्विघ्नतया शताङ्गा इव प्रवर्तन्त उदारकान्ते ॥ १८० ॥
उदारा अतिशायिनी स्फारा वा कान्तिप्तिः शोभा वा यस्य महती इच्छा वा । 'कान्तिः शोभाकामनयोः दीप्तौ च' इत्यनेकार्थः । तस्य संवोधने हे साहे, नोऽस्माकं शताङ्गा रथा इव तपांसि नियमविशेषा निर्विघ्नतया निरन्तरायत्वेन प्रवर्तन्ते प्रचलन्ति