________________
१३ सर्गः हीरसौभाग्यम् । निरञ्जनः कम्बुरिव व्यपास्तनिःशेषदोषः पुनरर्यमेव । ज्योतिर्मयो वह्निरिवास्तमूर्तिींनाङ्कवद्यः परमेशितास्ते ॥ १४५ ॥ यः परमेशिता कम्बुः शङ्ख इव निर्गतमञ्जनं रजः आदिलेंपो यस्य निरञ्जनः कर्ममललेपरहितः । 'सङ्खो इव निरजणे' इति कल्पसूत्रोक्तेः । पुनर्यः अर्यमेव भाखानिव व्यपास्ता निर्मूलमुच्छेदिता निःशेषाः समस्ता दोषा अपगुणा रात्रयश्च येन । पुनर्यो वद्विरग्निरिव ज्योतिर्मयः परमतेजःस्वरूपः । यदुक्तम्-'तेजोमयोऽपि पूज्योऽपि धातुना नीचजातिना । संगतः सहते वहिर्घनघातजयातनाम् ॥' इति । पुनींनाङ्क इव कंदर्प इवास्ता त्यक्ता मूर्तिः शरीरं येन । स्मरस्यानङ्गत्वात् । आस्ते । 'सत्तायामस्त्यास्ते' इति क्रियाकलापे । तथा 'आसते शतमधिक्षिति भूपास्तोयराशिरसिते खलु कूपाः' इति नैषधे । आस्ते आसाते आसते इति बहुवचनम् ॥
भवभ्रमीभङ्गिभरो भवीव किं रूपमाधाय सभांगमी सः । क्षेप्ता पुनर्दोयकिभिस्तिगत्योर्जनस्य कं हेतुमिह प्रतीत्य ॥ १४६ ॥ स परमेश्वरः भवेषु संसारपरम्परासु भ्रमीणां भ्रमणीनाम् । 'अपि भ्रमीभङ्गिभिरावृताङ्गम्' इति नैषधे । भङ्गयो रचना नरकतिर्यदेववैचित्र्यस्तासां भरः समूहो यस्य तादृशो भवी जीवः । ‘स पुनर्भवी जीवः स्यादसुमान्' इति हैम्याम् । संसारपर्यटनशी. लजन्तुरिव । यथा जीवः संसारे बंभ्रम्यमाणः सन्नानारूपाण्यादत्ते तथा संसारी जीव इव । किं कीदृग्जातीयं रूपं देवनरादिसंबन्धि कीदृशं शरीरमाधाय कृत्वा सभा परिषदं गमिष्यति उपवेश्यति इति सभांगमी । पुनः स खुदा इह जगति कं हेतुं रागद्वेषादिकं कारणम् । रागद्वेषौ विना शुभाशुभकारकत्वं न स्यात् । तस्य तु तावेव न स्तः । ततः • कं हेतुं प्रतीत्य समाश्रित्य जनस्य दोयकिभिस्तिनान्योर्नरकवर्गलक्षणयोर्गत्योः क्षेप्ता क्षेप्स्यति । हेतुरत्र नास्त्येव । हेत्वभावात्तत्र क्षेपणमपि न घटते ॥ सुखासुखानि प्रभविष्णु दातुं पचेलिमं प्राक्तनमेव कर्म । तस्यैव तत्कारणतास्तु मञ्जागलस्तनेनेव किमत्र तेन ॥ १४७ ॥ हे शेख, सुखासुखानि सौख्यानि दुःखानि च दातुं प्रभविष्णु समर्थ प्राक्तनं पूर्वज. न्माचीर्ण पचे लिमं परिपाक प्राप्त कमैव नान्यः कोऽपि तत्तन्मात्कारणात् तस्यैव कर्मण एव कारणता जगत्कर्तृतास्तु । अत्र जगति मञ्जागलस्तनेनेव छागिकानिगरणजेन पयोधरेणेव प्रायेणेव तेन केनचित्कल्पितेन जगत्कर्ता किमस्तु यदि अजाकण्ठोद्भूतस्तनादुग्धं प्रादुर्भवति तदा तस्मादपि विश्वसृष्टिर्घटते ॥ इति कर्मणो जगत्कर्तृत्वस्थापने सूरिप्रत्युत्तरम् ॥
इदं गदित्वा विरते व्रतीन्द्रे शेखः पुनर्वाचमिमामुवाच । . विज्ञायते तद्बहुगीवाचि वीचीव तथ्येतरता तदुक्तौ ॥ १४८ ॥