________________
६२२
काव्यमाला। इदं पूर्वोक्तं गदित्वा प्रत्युत्तरं प्रदाय व्रतीन्द्रे विरते निवृत्ते सति शेख: पुनर्द्वितीय. वारमिमामले वक्ष्यमाणां वाचं वाणीमुवाच वक्ति स्म । तदेवाह-हे गुरो, तद्भवदुक्तियुक्तिकारणाद्बहुगयों वाचाटस्तस्य वाचि वचने इक तदुक्तौ कुरानवाक्ये तभ्येतरता केवलं मृषाभाषितैव विज्ञायते ॥
बभाण भूयः प्रभुरेतमेतत्स्रष्टा जगत्पूर्वमिदं विधत्ते । तत्केतुवत्संहरते स पश्चात्ततोऽस्ति तस्याप्यसमश्रमोऽसौ ॥ १४९ ॥.
भूयो द्वितीयवारं प्रभुः सूरिः एतं शेखं प्रति एतदिहैव वृत्ते कथ्यमानं बभाण भ. णति स्म । निजगादेत्यर्थः । तदेव निर्दिशति-हे शेख, यदि स स्रष्टा जगत्कर्ता इदं सुरासुरनरनारकलक्षणं जगद्विश्वं विधत्ते निर्मिमीते प्रथमं सकलजगजनं निष्पादयति, पश्चात्स एव स्रष्टा विधाता केतुवडूमकेतुरिव तत्स्वेनैव कृतं विश्वं संहरते क्षयं नयति । ततः कारणात् तस्यापि जगत्कर्तुरपि । अयमसमोऽसाधारण: श्रमः क्लेशोऽस्ति विद्यते, न पुनः कदाचनापि खास्थ्यं यदेकं घटयति परं भनक्तीति ॥ कर्ता च हर्ता निजकर्मजन्यवैचित्र्यविश्वस्य न कश्चिदस्ति । वन्ध्यात्मजन्मेव तदस्तिभावोऽसन्नेव चित्ते प्रतिभासते तत् ॥ १५०॥ हे शेख, निजस्यात्मनः कर्मणा खप्राचीनजन्माचीर्णसुकृतदुष्कृतरूपेण कर्मणा जन्यमुत्पाद्यं वैचित्र्यं रचनाया विचित्रत्वं नानात्वं यस्य तादृशस्य विश्वस्य जगतः कश्चित्कर्ता निष्पादकः च पुनहर्ता संहारकः सर्वथा नास्त्येव । तत्कारणात्तस्य जगत्कर्तुर. स्तिभावः सत्ता विद्यमानत्वमसन्नेव अविद्यमान एव प्रतिभासते मम. चित्ते । मन्मनसीति भावः ॥
शेखं तमित्थं कृतपूर्वपक्षं संबोध्य सिद्धान्तवचोभिरेषः । धर्म निधत्ते स्म तदीयचित्ते कृषीवलो वीजमिवोर्वरायाम् ॥ १५१ ॥ एष सूरिस्तदीये शेखसंबन्धिनि चित्ते मानसे दयारूपं धर्म निधत्ते स्म स्थापयति स्म । क इव । कृषीवल इव । यथा कर्षक: उर्वरायां सर्वसस्यायां क्षेत्रभूमौ बीजं वपनोचितधान्यं निधत्ते वपति । किं कृत्वा । इत्थममुना प्रकारेण कृतो विहितः पूर्वपक्षो विप्रतिपत्तिर्येन । संदिग्धोऽर्थः पूर्वपक्षः । तं शेखं सिद्धान्तवचोभिर्निःसपत्नबुद्धि निश्चयः सिद्धान्तस्तस्य वाक्यैर्वचनैस्तद्रूपैर्वा प्रत्युत्तरैः । सिद्धान्तावलम्बेन पूर्वपक्षप्रतिक्षेपो भवति इति व्युत्पत्तिर्नैषधनरहर्याम् । संबोध्य बोधयित्वा ॥
बभूव वल्भावसरोऽधुना तद्विधीयतां क्वाप्युचिते पदे सा । दत्त्वाल्पमङ्गाबहु गृह्यते यद्धर्मादि पात्रादिव बुद्धिमद्भिः ॥ १५२ ॥ श्रुत्वेति शेखस्य वचो विधत्ते यावत्स वल्मामुचितप्रदेशे। अभाजि भूजम्भभिदा सभाया मध्यं दिवो भानुमतेव तावत् ॥१५३॥