SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ १२० काव्यमाला। इत्यनेकार्थः । सुखानि शर्माणि भोक्ष्यन्ति । का इव। नाव इव । यथा यानपात्राणि तास्थ्यात्तद्यपदेश इति न्यायानौजना अनुकूलेन खाभिलपितस्थानप्राप्तिकारिणा वातेन अम्बुधेः समुद्रस्य कूलं तटं वेलाकूलं वा लम्भिताः सन्तः सुखं सांसारिकं सातं भुञ्जन्ति ॥ श्येनैः शकुन्ता इव पीड्यमानाः कुम्भाः कुलालैरिव पच्यमानाः। तद्गोप्तृभिदौयकिमेनसान्ये प्राप्स्यन्ति दुःखान्यपि तेन नीताः॥१४२॥ अपि पुनस्तेन खुदाख्यपरमेष्ठिना अन्ये कुकर्मकारिणो यवनजनाः एनसा पचेलिमेन पापेन कृत्वा दोयकिं नरकं नीताः संप्रापिताः सन्तो दुःखानि महाकष्टानि प्रा. प्स्यन्ति लप्स्यन्ते। किं क्रियमाणाः । श्येनैः शशादनः सिश्चानकैः । श्येनः पत्री शशा. दनः' इति हैम्याम् । शकुन्ता विहंगमा इव तद्गोप्तृभिः तस्य नरकस्य गोप्तृभिः गोपायन्तीति गोप्तारस्तैर्नरकपालकैः । 'नरयस्सरकेपाला केहिं परिवेया अच्छि । तदुत्तरे नरकर केहि-' इति विदग्धमुखमण्डने । पीज्यमानाः खादनाक्षिकर्षणमारणादिप्रकारैः सततं संताप्यमानाः । पुनः किं क्रियमाणाः । कुलालैः कुम्भकारैः कुम्भाः कलशा इव इष्टिकावत्पाचनकटाहोणतैलाद्युत्कालनाग्निक्षेपणतप्तत्रपुमानादिना निरन्तरं पच्यमानाः पचिक्रियां पक्वतां भ्रष्टतां नीयमानास्तद्गोप्तृभिरेव ॥ कुरानवाक्यं किमिदं यथार्थ महात्मनां वाक्यमिवास्ति सूरे । इव प्रसूने गगनस्य तस्मिन्नुताभ्युदेति व्यभिचारिभावः ॥ १४३ ॥ हे सूरे, महात्मनामवितथवाचामुत्तमानां भाषितं वचनमिव यवमानां, किं यच्छास्त्रं कुरानमित्युच्यते इदं यन्मया श्रीमत्पुरस्तात्पूर्व प्रतिपादितं कुरानस्य यवनशास्त्रविशेषस्य वाक्यं वचनम् । किमिति प्रश्ने। यथार्थ सत्यमस्ति । उताथ वा गगनस्य प्रसूने आकाशकुसुम इव तस्मिन् कुरानवाक्ये व्यभिचारिभावोऽसत्यत्वमभ्युदेति प्रकटीभवति । इदं सत्यमसत्यं वा तत्सम्यक् निश्चित्य वाच्यमित्यर्थः ॥ इति शेखस्य खशास्त्रानुसारिप्रश्नः ॥ इदं निगद्य व्यरमत्स तस्य बुभुत्सया वाङ्मयवेदितायाः । ततो बिडौजा यतिनामिवैकधुरां सिताया भणति स्म वाणीम् ॥१४४॥ स प्रश्नकर्ता शेख इदं पूर्वोक्तं निगद्य कथयित्वा व्यरमद्विरराम । मौनं कृत्वा स्थित इत्यर्थः । कया। तस्य साहिना धर्मगोष्ठीमनुष्ठातुमाहूतस्य हीरसूरिवाङ्मयानां म्वपरसमयशास्त्राणां वेत्ति सम्यग् जानातीत्येवंशीलो वेदी तस्य भावो वेदिता तस्या ज्ञाटताया बुभुत्सया बोद्ध मिच्छया। ततः शेखे मुखे जोषे कृते सति शेखप्रश्नानन्तरं वा यतिनां साधूनाम् । 'ब्रह्मशर्मभरचारु यतीव' इति नैषधे । मत्त्वर्थी यन्प्रत्ययः । बिडौजा इन्द्रः सूरिर्वाणी भणति स्म । उवाचेत्यर्थः । उत्प्रेक्ष्यते-सितायाः शर्करायाः एकधुरामिव एका धुरं वहतीत्येकधुरां सदृशाम् । एकधुरीणैकधुरावुभावेकधुरावहौ' इति हैम्याम् ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy