________________
१३ सर्गः] हीरसौभाग्यम् ।
शुश्रूषमाणस्य विशिष्य शिष्यस्येवास्य शेखस्य वृषा मुनीनाम् । गेहं महीपालगृहोपकण्ठे पवित्रयामास पदारविन्दैः ॥ १३३ ॥ मुनीनां वृषा वासवः सूरिर्महीपालस्य पतिसाहेहस्य प्रासादस्योपकण्ठे संनिधाने अस्याबलफैजनानः शेखस्य गेहं भवनं पदारविन्दैश्चरणकमलैः । पूज्यत्वाद्बहुवचनम् । पवित्रयामास पावनीकुरुते स्म। अस्य किं चिकीर्षमाणस्य । शुश्रूषमाणस्य सूरिसेवां विधातुमीहमानस्य । कथम्। विशिष्य विशेषप्रकारेण खसेव्याधिक्येन । कस्येव। शिष्य. स्येव । यथा विनेयकः गुरोः खस्याचार्यस्योपाध्यायस्य य रत्नाधिकस्य वा विशिष्य सर्वान्तेवासिवर्गेभ्योऽत्यभ्यधिको परिचर्या विधित्सति खयं सुशिष्यत्वात्वर्गापवर्गादिसुखसाधकत्वाच ॥ इति साहिसंदिष्टवचनश्रवणपूर्व शेषगृहगमनम् ॥
संदेहसंदोहमहाम्बुवाहमहाबलेन व्रतिवासवेन । बोद्धा श्रुतेः श्राद्ध इव खधानि धा स गोष्ठीमनुतिष्ठति स्म ॥१३॥ स शेखः खधाग्नि निजनिकेतने तिनां महाव्रतभृतां यतीनां वासवेन मघोना सह धयो धर्मसंबन्धिनी गोष्ठी वार्तामनुतिष्ठति स्म कृतवान् । किंभूतेन व्रतिवासवेन । संदेहाः संशयाः शास्त्रविचारणोद्भवाः मानसिका वा तेषां संदोहाः समूहा एव महान्तो घोराज्ञानान्धकर्तारः अम्बुवाहाः घनाघनाः तेषां विध्वंसने मूलोन्मूलने नामशेखीकरणे महाबलः प्रलयपवनस्तेन । किंलक्षणः शेखः । श्रुतेः शास्त्रस्य बोद्धा अवगन्ता प्रवीणः । यदुकम्-'पात्रे त्यागी गुणे रागी भोगी परिजनैः समम् । शास्त्रे बोद्धा रणे योद्धा पञ्चाङ्गः पुरुषः स्मृतः॥ इति सूके। क इव । श्राद्ध इव । यथा कश्चिदागमावबोधक उपासका केनापि सूरिणा समं धो गोष्ठी विधत्ते ॥
हिंसादये निर्दिशती विरोधिधर्मे मिथः स्वीयतदीयशास्त्रे। क्षीराम्भसोर्हसमिवाधिगत्य तयोविवेक्तारमसौ पुनस्तम् ॥ १३५ ॥ पुपोष भाषां खमुखेन शेखः पुरो विनेयायितवृत्तिरस्य । नतिं दधानो विनयादधीतां पाणौ प्रणीतात्सुगुणादिवास्त्रात् ॥१३६॥ असौ खसद्मनि सूरेरानेता शेखः अस्य हीरसूरेः पुरोऽग्रे खमुखेन निजवदनेन कृत्वा भाषां वाणी पुपोष पुष्णाति म पुष्टां चकार । उवाचेत्यर्थः । किंभूतः । विनेयायिता विनेयोऽन्तेवासी शिष्यस्तद्वदाचरिता वृत्तिर्मनोवाकायव्यापारो यस्य । अत एव किं कुर्वाणः। नतिं नम्रतां विनयनेन प्रवीभावं दधानो बिभ्राणः । उत्प्रेक्ष्यते-पाणी रणशूरतया खहस्ते प्रणीतात्कृतात् । गृहीतादित्यर्थः। तथा सुगुणात् सुशोभना जगजनमनोरमका धैर्यौदार्यगाम्भीर्यार्जवमार्दवादिमा गुणा मनोज्ञो ढंकारववित्रासितानेकशात्रवो गुणो मौर्वी च यस्मिन् तादृशादत्रात्कोदण्डात् । 'धनुश्चापोऽस्त्रमिष्वासः कोदण्डं धन्व कार्मुकम्' इति हैम्याम् । अधीतां पठितामिव । यदुक्तम्-'नमणी खमणी बहुगुणी