________________
काव्यमाला।
नताङ्गः प्रणमनेन नम्रीकृततनुः । पुनः किं कुर्वाणः । बहुमन्यमानः बहुवहुमानं ददानः । युक्तोऽयमर्थः । निर्जरशाखिनं कल्पपादपं को नाशंसते समीहते । अपि तु सर्वोऽपि इच्छेत् । 'शंस इच्छायाम्' । उभयपदी । 'आशंसते धनायति समीहते तद्वदाशास्ते' इति क्रियाकलापे ॥
अथो पृथिव्या उशना इवासौ निःशेषशास्त्रोपनिषद्यधीती । अस्पृष्टशिष्टेतरवृत्ति तस्मै न्यजीगदत्तन्निखिलं निगाद्यम् ॥ १३० ॥ अथो सूरिसमीपागमनानन्तरं शेखस्तत्साहि कथितं निखिलं समग्रमपि निगाद्यं वाच्यं न्यजीगदत्कथयति स्म। कथम् । अस्पृष्टा अनाश्रिता अनादृता वा शिष्टात्सांधोरितरा अन्या दौर्जनी वृत्तिप्पारो यत्रैवं यथा स्यात्तथा। शेख: किंभूतः । निःशेषाणां सर्वेषां शाखाणां कुरानादियवनागमानामुपनिषदि रहस्ये अधीतमध्ययनमस्यास्तीति । उत्प्रेक्ष्यतेपृथिव्या भूमेशनाः शुक्र इव । तस्य असुराणां गुरुत्वादियमुत्प्रेक्षा। इदानीं च लोकभाषया यवना असूरा उच्यन्ते । यदुक्तं दोधके-'मुंदरसरअसुरांहदलजलपीg. . वयणेहि । अमरनारदकढाविउतिहांनारीनयणे हि' ॥ .
तदुक्तियुक्तौ सनिदर्शनायां शेखं निरस्तप्रतिबन्धृभावम् । श्रुतौ प्रबन्धारमिव प्रवीणधुरीणमेनं बुबुधे बुधेन्द्रः ॥ १३१॥ बुधानां विपश्चितां सर्वशास्त्राधीतिनां मध्ये इन्द्रः सूरिः सनिदर्शनायां दृष्टान्तकलि. तायाम् । ‘स्मरात्परासोरनिमेषदर्शनाद्विभेमि तद्भिन्नमुदाहरेति सा । जनेन यूनः स्रवता तदास्पदे निदर्शनं नैषधमभ्यरेचयत् ॥' इति नैषधे । तस्य साहेरुतीनां युक्ती योजनायां चातुर्योदाररचनायामेनं शेखं प्रबन्धारं प्रबन्धो विस्तारः तस्य कर्तारं बुबुधे विवेद जानीते स्म । एनं किंभूतम् । निरस्तो निवारितो मुक्तः प्रतिबन्धुभावः प्रतिबन्ध कतादूषकत्वम् । विहंगमद्भाषितसूत्रपद्धती प्रबन्धृतास्तु प्रतिवन्धृता न ते' इत्यपि नैषधे । कमिव । प्रवीणधुरीणमिव । यथा विद्वद्वन्दारकं सनिदर्शनायां श्रुती शास्त्रे निरस्तम् इदं च शास्त्रविरुद्धम् । इदं तु दूषणमित्यादिप्रतिबन्धककर्तृत्वं दूषणोद्भावकत्वं विरोधभाषित्वं येन तादृशं प्रबन्धारं दूषणनिराकरणनानार्थयुक्तिविशेषोल्लेखप्रकाशकारिणं कश्चिद्विपश्चिद्वध्यते ॥ निशम्य तद्भाषितमेष धात्रीसहस्रनेत्रस्य ततो व्रतीन्द्रः । इयेष शेखस्य गृहे प्रयातुं सुरेन्द्रधाम्नीव सुपर्वसूरिः ॥ १३२ ॥ ततः शेखवाक्यश्रवणानन्तरमेष हीरविजयनामा व्रतीन्द्रः श्रमणशक्रः सूरिः शेखस्य गृहे मन्दिरे प्रयातुं गन्तुमियेष वाञ्छति स्म । किं कृत्वा । धात्रीसहस्रनेत्रस्य पृथिवीपुरंदरस्याकब्बरस्य तत्पूर्वोक्तं भाषितं कथितम् । वचनमित्यर्थः। निशम्याकर्ण्य । क इव कस्मिन् गन्तुम् । सुपर्वसूरिरिव । यथा सुपर्वणां देवानां सूरिराचार्यः पाठयिता वाचस्पतिः सुरेन्द्रस्य नाकिनायकस्य धाम्नि वैजयन्तनामनि प्रासादे गन्दुमिच्छति ॥