SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ १३ सर्गः) हीरसौभाग्यम् । नोऽपि पूर्व प्रथमं क्षपक इत्यभिधानं नाम यस्यास्तादृशीं श्रेणीमलंकुरुते प्रथमं क्षपकश्रेणीमाश्रयति ॥ विधातृपुत्रीतनयैरिवायं तोस्तूयमानोऽनुपदं कवीन्द्रैः। तत्रापि निर्बन्धवशाद्वशीन्द्रः सामन्तभूभृद्भवने न्यवात्सीत् ॥ ९४ ॥ अयं वशीन्द्रः जितेन्द्रियाणां मध्ये वासवो हीरसूरिस्तत्रापि शाखापुरेऽपि निर्बन्धवशादत्याग्रहानुरोधात् सामन्तभूभृद्भवने सामन्तः खल्पजनपदग्रामनगराधिपः स एव भूभृत् पृथिवीपतिः तस्य भवने । जगन्मल्लनामा कच्छवाह इति केषांचिद्राजन्यानां जातिविशेषा एतावता जगनालकच्छवाहा तस्य गृहे न्यवात्सीत् निवसति स्म। किं क्रियमाणः । अनुपदं पदे पदे स्थाने स्थाने कवीन्द्रैः पण्डितमण्डलाखण्डलै: तोस्तूयमानः अतिशयेन काव्यादिभिर्वर्ण्यमानः । उत्प्रेक्ष्यते-विधातुब्रह्मणः पुत्र्या नन्दिन्याः । 'दशमं ब्रह्मणः सुता' इति सरखतीनद्या अप्यभिधानम् । 'ब्रह्मपुत्री सरखती' इति हैम्याम् । वाग्देवतायाः तनयैः पुत्रैरङ्गजैरिव सारखतकुमारैरिव ॥ पचेलिमान्प्राक्तनकर्मरोगारसायनं दिव्यमिवापनेतुम् । तत्रापि शक्रः शमिनां सदस्यानुद्दिश्य धर्म कथयांबभूव ।। ९५.। तत्रापि जंगन्मल्लभूभृद्भवनेऽपि शमिनामुपशमवतां साधूनां शक्रः पुरंदरस्तन्मध्ये वा वासवः । सर्वोत्कृष्टशान्तरसवत्त्वात् । सूरिः सदस्यान् सभ्यानुद्दिश्य अङ्गीकृत्य । अथ वा सभासदामायतिहितहेतवे धर्म. भगवद्भाषितमुत्कृष्टमङ्गलमशेषसंपदुपादानं धर्मदेशनां कथयांबभूव दिशति स्म । उत्प्रेक्ष्यते-पचेलिमान् परिपाकमुदयावलिका प्रपेदा• नान् प्राकनान् पूर्वजन्मनिर्मितान् कर्माणि ज्ञानावरणीयादिकान्यष्टौ तान्येव रोगान् . दानाशयितुं अपनेतुं निवारयितुं दिव्यं देवसंबन्धि रसायनमौषधविशेष इव पापग'महामयान् सुधारसमिव ॥ निपीयमाना श्रवणाञ्जलिभ्यां तद्देशनासारसुधाबुधानाम् । दन्तांशुमिश्रमितमूर्तिरन्तरमान्त्युपेयाय बहिः किमेषा ॥ ९६ ॥ श्रवणौ कर्णावेवाञ्जली योजितप्रमृतपाणी ताभ्यां कृत्वा निपीयमाना सादरं श्रूय- माणा तस्य सूरेर्देशना व्याख्यानरूपा सारा प्रकृष्टा सकलपदार्थावबोधकारकत्वात् वर्गापवर्गाविसर्ववैभवदायकत्वाच्च सारत्वम् सैव सुधा पीयूषम् । अथ वा. देशनैवासारो वेगवती वृष्टिर्यस्याः तादृशी सुधा अमृतरसो वा बुधानां सकर्णानां श्रोतृणामन्तर्हृदयमध्ये अमान्ती अखण्डितप्रवाह आगच्छदमृतबाहुल्येन स्थातुमशक्नुवन्ती सती। उत्प्रेक्ष्यते-दन्तानां दशनानामंशुभिः किरणैर्मिश्रं व्याप्तं यस्मितं प्रमोदोदयादीषद्धसितं तदेव मूर्तिदेहो यस्या एषा प्रत्यक्षलक्ष्या बहिस्ताबाह्यस्थानकमुपेयाय समागतेव ॥ निशम्य वाचंयमवासवस्य तां देशनां स्त्रैणसखा मनुष्याः। परस्परस्पर्धितया ववर्षदानरमानैरिव वारणेन्द्राः ॥ ९ ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy