SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। तथा-'स सूर्योदयादाक् नलिनीगुल्मविमानगमनार्थमुत्कण्ठुल: संयमप्रतिपत्तये प्रहर्षक:' इत्याचारप्रदीपे श्रीरत्नशेखरसूरिकृते। पौरकन्या नागरिककुमारिकाः पथि मार्गे प्रमोदादानन्दात्तं गुरुं तन्दुलाश्चोक्षा अखण्डाः तुषकलकलमास्तथा लाजा भ्रष्टा यवाः । लाजैर्वर्धापनं शास्त्रेषु दृश्यते। यथा-'अवाकिरन्वयोवृद्धास्तं लाजैः पौरयोषितः' इति रघौ । तथा मुक्काफलानि तासां पतथा श्रेण्या अवाकिरन् वर्धापयन्ति स्म । का इव । प्रवृद्धपयोधिवेला इव । यथा चन्द्रचन्द्रिका लिङ्गनप्रवर्धमानपयसः पयोधेः समुद्रस्य वेला जलवृद्धिः । 'वेला स्यावृद्धिरम्भसः' इति हैम्याम् । पृषतैः पयोबिन्दुभिः कृत्षा शर्वरीशं रजनीनायकं चन्द्रमवकिरति वर्धापयति ॥ इति गुरुवन्दनाधिकारः ॥ विशां दृशः प्रीणति शक्रकेताविव क्षणेऽस्मिन्बहलीभविष्णौ। . . निशम्यता वर्त्मनि पौरवृद्धाविश्वस्तकान्ताशुभशंसितानि ॥९१॥ एकत्र जाग्रत्रिजगद्विभूतिदिदृक्षयात्रोपगता प्रभेव । शनैः शनैः संचरताथ तेन फतेपुरस्योपपुरं प्रपेदे ॥ ९२ ॥ (युग्मम्) अथ संघस्य संमुखागमवन्दनानन्तरं शनैः शनैर्मन्दं मन्दं संचरता युगप्रमाणक्षोणीसमीक्षणक्रमेण प्रचलता सूरिणा फतेपुरस्य साहिराजधान्या उपपुरं शाखापुरं प्रपेदे संश्रिते। तत्राजगामेत्यर्थः । उत्प्रेक्ष्यते-एकत्र एकस्मिन्नेव श्रीकरीलक्षणस्थाने जाग्रत्याः स्फुरन्या वसन्त्याः त्रिजगतां त्रयाणां भुवनानामपि विभूतेर्लक्ष्म्या दिदृक्षया द्रष्ट मि. च्छया अत्र फतेपुरसमीपे उपगता समेता प्रभा अलका धनदनगरीव । 'पुरी प्रभा। अलका वखोकसारा' इति हैम्याम् । तेन किं कुर्वता । वर्त्मनि मागे पौरेषु नागरिकेषु वृद्धा मुख्यास्तेषामविश्वस्तानामविधवानाम् । सुवासिनीनामित्यर्थः । 'विश्वस्ता विधवा समे' इति हैम्याम् । तादृशीनां कान्तानां सामान्यतः स्त्रीणाम् । अथ वा पुरे भवाः पौर्यः पौर्यश्च ता वृद्धाः पौरवृद्धाः नगरसंबन्धिन्यस्तथा महत्यः तथा अविश्वस्ताः सधवास्तादृशीनां वशानां शुभशंसितानि आशीर्वचनानि निशम्यता शृण्वता पैऋषविषयीकुर्वता । कस्मिन् सति । शक्रकेतौ इन्द्रध्वज इव अस्मिन्प्रभुप्रवेशे संमुखकरणलक्षणे क्षणे बहली. भविष्णौ दृढीभवनशीले बहुतमे जायमाने सति विशां जगजनानां दृशो लोचनानि प्रीणति प्रह्लादयति । सर्वनेत्रानन्ददायित्वात् । 'पुरहूतध्वजस्येव तस्योनयनपतयः' इति रघौ ॥ युग्मम् ॥ स श्रीकरीं गन्तुमपीहमानः शाखापुरं भूषयति स्म सुरिः। आश्लेषितुं केवलपद्मवासां श्रेणीमिवात्मा क्षपकाभिधानाम् ॥ ९३ ॥ स सूरिः श्रीकरी साहिनालंकृतां नगरीं गन्तुं प्रयातुमीहमानोऽपि शाखापुर फतेपुरस्योपपुरं भूषयति स्म अलंचकार । क इव । आत्मेव यथा भवश्वरमशरीरी जीव: केवलपद्मवासां केवलज्ञानरूपामरविन्दमन्दिरां लक्ष्मीमाश्लेषितुमालिङ्गितुं प्राप्तमीहमा
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy