________________
१३ सर्ग: हीरसौभाग्यम् । प्राप्ता न ये कुत्रचित्पद्भयामेव विवर्जिताः प्रतिदिनं भूमौ विलीनाश्चिरम् । उत्क्षिप्ताश्चपलाशयेन मरुता पश्यान्तरिक्षे सखे तुङ्गानामुपरिस्थिति क्षितिभृतां कुर्वन्यमी पांसवः ॥' इति सूक्तोकेर्लघिमा रेणूनाम् ॥
नम्राङ्गभाजां भगवन्नखेषु दृग्दन्तपतिस्मितबिम्बितानि । बालेन्दुबिम्बेषु चकोरताराचन्द्रातपाः किं मिलिता विभान्ति ॥ ८७ ॥ भगवन्नखेषु सूरेन्द्रचरणकामाङ्कुशेषु नम्राणां नमनशीलानामङ्गभाजां प्राणिनां दृशो नेत्राणि, तथा दन्तपतिः प्रमोदवशाद्विकसितवदनारविन्दानां दशनश्रेणी, स्मितं हसितं तेषां प्रतिबिम्बितानि विभान्ति । उत्प्रेक्ष्यते-बालान्युदयमानानि इन्दूनां चन्द्राणां बिम्बानि मण्डलानि तेषु मिलिताः स्नेहेन एकत्रभूताः चकोरा ज्योत्स्नाप्रियास्तथा तारकाश्चन्द्रकान्ताश्चन्द्रातपाश्चन्द्रिकाः किम् ॥
प्रभो खैनप्रनितम्बिनीनां कंचच्छटानां प्रतिमा ध्रियन्ते । खर्भाणुविद्वेषिजिगीषयार्भमार्तण्डबिम्बैरिव मण्डलायाः ॥ ८ ॥ प्रभोहीरसूरे खैः क्रमकामाशैर्नम्राणां भक्तिप्रहत्वेन नमस्करणशीलानां नितम्बिनीनां वनितानां कचच्छटानां केशपाशानां प्रतिमाः प्रतिबिम्बानि ध्रियन्ते आश्रीयन्ते। उत्प्रेक्ष्यते-खर्भाणुर्विधंतुदः स एव विद्वेषी प्रतिपक्षस्तस्य जिगीषया जेतुमिच्छया हन्तुं वाञ्छया वा अर्भा उदयमाना ये मार्तण्डा भास्करास्तेषां बिम्बैमण्डलामास्तरवा. रय इव धार्यन्ते ध्रियन्ते इव ॥
जहेषिरेऽश्वाश्च गजा जगर्जुनिध्यानतः साधुसुधामरीचेः । जम्भद्विषद्वाजिगजानिवात्मगोत्रेषु वृद्धान्पवितुं हयन्तः ॥ ८९ ॥ साधुसुधामरीचेः वाचंयमामृतकिरणस्य सूरेनिध्यानतः दर्शनादेव । 'निध्यानमवलोकनम् । दर्शनम्' इति हैम्याम् । अश्वाः प्रमोदाजहेषिरे हेषारवं विदधते स्म । च पुनगंजा हस्तिनः जगर्जुः सजलजलधररावानुयायि गर्जारवं विदधिरे । उत्प्रेक्ष्यते-आ. त्मनः खस्य गोत्रेषु वंशेषु वृद्धानग्रजानाद्यान्वा जम्भद्विषतः पुरंदरस्य वाजिनो वाहा गजा द्विरदाः । उच्चैःश्रवस: ऐरावणो गजः समुत्पन्नस्तत्संतानानि परेऽश्वा गजाश्च । यथा चम्पूकथायाम्-'किंलक्षणः।सकलसुरासुरकरपरिघपरिवर्त्तमानमन्दरमन्थानकमथितदुग्धाम्भोनिधेरजनि जनितजगद्विस्मया स्मरजननी लक्ष्मीमृगाङ्कसुरतरुधन्वन्तरिकौस्तुभोच्चैःश्रवसा सहभूः शशधरकान्तिरैरावतस्तत्प्रसूतिरियमशेषवनान्यलंकरोति । यथैव ऐरावतस्य तथैवोच्चैःश्रवसोऽपि प्रसूतिरिति ॥ उत्कण्ठुलास्तन्दुललाजमुक्तापतया प्रमोदात्पथि पौरकन्याः।
अवाकिरंस्तं पृषतैः प्रवृद्धपयोधिवेला इव शर्वरीशम् ॥ ९ ॥ उत्कण्ठुलाः सोत्कण्ठाः । 'उदः कण्ठादुलो मत्वर्थे उत्कण्ठुलः' इति प्रक्रियाकौमुद्याम् ।