________________
६०२
काव्यमाला। धात्रीपवित्रीकृतये प्रणीतजनि पुनः किं वसुभूतिपुत्रम् । संघो मुनीनां मघवानमेनं स्वचक्षुषोगोंचरयांचकार ॥ ८३ ॥
संघ एनं पातिसाहिसबहुमानाबानायातं मुनीनां साधूनां मघवानं पुरहूतं श्रीहीरविजयसूरीश्वरं स्वस्यात्मनश्चक्षुषोलोचनयोगोचरयांचकार । विलोकते स्मेत्यर्थः । उत्प्रेक्ष्यते-धात्र्या भरतक्षेत्रक्षोण्याः पवित्रीकृतये पाचनीकरणाय पुनर्द्वितीयवारं प्रणीता वयमेव कृता जनिः खोत्पत्तियेन तादृशम् । किंवत् । वसुभूतिपुत्रं गौतमखामिनमिव । 'श्रीइन्द्रभूतिं वसुभूतिपुत्रपृथ्वीभवं गौतमगोत्ररत्नम्' इति पूर्वाचार्यस्तुतौ ॥ इति पुरसघकृतहीरसूरिसंमुखकरणोत्सवः ॥
प्रक्षाल्य दुग्धाम्बुधिना पयोभिः कृतं निरङ्कं तनुजन्ममोहात् । पुरीदिदृक्षोपगतं मृगाङ्कमिवैनमन्विष्य तुतोष संघः ॥ ८४ ॥ . .
संघ एनं सूरिमन्विष्य विलोक्य तुतोष जहर्ष । उत्प्रेक्ष्यते-पुरीदिदृक्षया श्रीकरीनगरीलक्ष्मीसमीक्षणकाया उपगतमायातम् । 'आगमने गमनार्थाः समभ्युपाङ्भ्यः पराः कथिताः' इति क्रियाकलापे । मृगाङ्कं चन्द्रमसमिव । किंभूतम् । दुग्धाम्बुधिना क्षीरसमुद्रेण तनुजन्मना खपुत्रस्य मोहात्स्नेहात् चन्द्र क्षीरसमुद्रोत्पन्नत्वेन द्वयोर्जन्यजनकभावसंबन्धः । पयोभिः खक्षीरैः कृत्वा प्रक्षाल्य धावयित्वा निरई निर्गतकलङ्क. मलिनिमानं कृतं निर्यितम् ॥
खाहान्वितं वहिमिवोपयन्ता श्रीसंघलोकः सुमुखीसखस्तम् । प्रदक्षिणीकृत्य समाधिपद्मानुषङ्गभाजं प्रणनाम भस्या.॥ ८५ ॥ श्रिया महा युक्तः संघस्तं गुरुं भक्त्या प्रणनाम नमस्करोति स्म । तं किंभूतम् । समाधिपद्माविशिष्टतमध्यानलक्ष्मा सहालिङ्गनैकतानादानुषङ्गो मिथःसंश्लेषसंबन्धस्तं भजतीति । संघः किंभूतः । सुमुख्यः स्त्रियः सखायो यस्य । किं कृत्वा । प्रदक्षिणीकृत्य तिस्रः प्रदक्षिणा दत्वा । क इव। उपयन्तेव । यथा नरवाडयोषित्सख: परिणेता स्वाहया खपत्न्या अन्वितं सहितम् । 'स्वाहाग्राहीप्रियस्य च' इति हैम्याम् । वहिं प्रदक्षिणीकृत्य प्रणमति । 'अन्वासितमरुन्धत्या खाहयेव हविर्भुजम् इति रघुवंशे । तथा 'हा खा. हाप्रिय धूममङ्गजममुं सूत्वा न किं दूयसे' इति सूक्तोलेः ॥
रेणुर्जिघांसुर्लघिमानमेतत्क्रमौ किमाश्लिष्य वितिष्ठमानम् । प्रणेमुषां जन्मजुषामलीकललामलीलाश्रियमश्नत स्म ॥ ८ ॥ रेणुः प्रभुपदाम्बुजरजः प्रणेमुषां प्रणतानां जन्मजपा प्राणिनामलीके भालस्थले . ललामलीलायास्तिलकविलासस्य श्रियं शोभामश्नुते स्म व्याप्नोति स्म । लेभे इत्यर्थः । किंभूतः रेणुः । एतत्क्रमौ सूरिपादौ आश्लिष्यालिङ्गय वितिष्टमानो वसन् । उत्प्रेक्ष्यतेलघिमानं निजलघुभावं जिघांसुईन्तुमिच्छुरिव । 'ये जात्या लघवः सदैव गणनां