SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ १३ सर्गः] हीरसौभाग्यम् । कुम्भैः कनककलशैः सह तडितां विद्युतां विलासेन विलसितेन लीलया वा वर्तते यत्तम् । पुनः किंभूतम् । रजोभिरुडीनधूलीभिरभ्राणि वादलकानि 'आभला' इति प्रसिद्धान्यङ्के कोडे मध्ये यस्य तम् । पुनः किंभूतम् । तूराणां विविधवादित्राणां खरैनिःखनैरुदिताः प्रकटीभूता गर्जा गर्जितं गम्भीरध्वनियंत्र ॥ . उद्धर्षनिध्यानधृतावधानसौधाग्रजाग्रत्पुरसुन्दरीणाम् । वीथी दिवो वक्रसहस्रपत्रैः सहस्रचन्द्रेव तदा दिदीपे ॥ ८० ॥ तदा तस्मिन्नुत्सवसमये उद्धर्षस्य प्रभुप्रवेशमहोत्सवस्य । 'क्षणोत्सवोद्धवोद्धर्षम्' इति हैम्याम् । निध्याने निरीक्षणे धृतं स्थापितमवधानं मनोध्यानं वा याभिस्तथा सौघाना खखगृहाणामग्रे शिखरे उपरि जाग्रतीनां सावधानतयोपविष्टानां स्थितानां वा पुरसुन्द. रीणां श्राद्धव्यतिरिक्तनगरनारीणां वक्रसहस्रपत्रैः वदनकमलैः कृत्वा दिवो वीथी गगनपद्धतिः सहस्रं दशशतीसंख्याकाः सहस्रशो वा चन्द्रा इन्दवो यस्यां तादृशीव दिदीपे शोभते स्म ॥ . असजि सृष्टिविधिना नवा किं गर्भाद्भुवो वा किममी निरीयुः । समं निपेतुः किमुताम्बराद्वा विज्ञैर्जनान्वीक्ष्य तदेत्यतर्कि ॥ ८१ ॥ तदा तस्मिन् संघस्य सूरिसंमुखसमागमनसमये प्रमाणातीतान् जनान् लोकान् वीक्ष्यावालोक्य विज्ञैर्विशेषेण विचारचतुरैः इत्यमुना प्रकारेण अतर्कि विचार्यते स्म। इति किम् । विधिना सृष्टिकर्ता किं नवा अपरा नवीना सृष्टिविश्वनिर्मितिः कृता । वाथ वा अमी जनाः भुवो भूमेर्गर्भान्मध्याम्कि निरीयुः निर्गताः । उताथ वा अम्बरादाकाशात् समं एककालमेतावन्तो निपेतुः निपतिताः ॥ नभोम्बुपानब्द इवानघीतार्थनान्सुजन्नर्थिजनान्परेषु । खगौरवौर्वीवहनप्रणीतसंशीतिशेषः स चचाल संघः ॥ ८२ ॥ स फतेपुरसत्कः संघो जनसमुदायः । 'संघसार्थों तु देहिनाम्' । चचाल सूरिसंमुख प्रतिष्ठते स्म । किंभूतः । खस्यात्मनो गौरवेण हास्तिकाश्वीयरथकड्यादिजनितातिभारेण • युक्ताया उर्व्या भूमेर्वहने धारणे प्रणीता विहिता संशीतिः संशयो येन । हा मया अतिभारवतीयं जगती कथं हविष्यते इति संशीतिः तादृशः शेषो नागाधिराजो यत्र । संघः किं कुर्वन् । परेष्वन्यवदान्यजनेषु विषये न अधीता पठिता अभ्यस्ता वा अर्थ. ना याचना यैः तादृशानार्थजनान् याचकलोकान् सृजन् कुर्वन् । क इव । अब्द इव । यथा वारिदो नभोम्बुपान् नभस्तो वर्षद्वारिदात्पतत्प्रोच्चैः कृतं प्रसारितं चक्षुपुटान्तरायातमम्बु पिबन्तीति नभोम्बुपान् वप्पीहान् । तत एवोक्तम्-'एक एव खगो मानी चिरं जीवतु चातकः । पिपासितो वा म्रियते याचते वा पुरंदरम् ।।' इति । परेषु व्यतिरिकजनाशयेषु विषये निर्मुक्तार्थनान्करोति ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy