________________
काव्यमाला।
अत्र गुरुमहोत्सवे प्रचलद्भिर्गुरुसंमुखं गच्छद्भिस्तुरङ्गैर श्वैर्धात्री धरित्री अखानि क्षोदिता । कैः । खुरैः स्वचरणनखशिखाभिः। कैरिव । खनकैरिव । यथा पूर्तऋद्भिः 'उड' इति भूमौ प्रसिद्धैः खनित्रैरिति भूमिखननोपकरणः खनित्रैः 'कुद्दाला' इति प्रसिद्ध स्तैः कृत्वा धरणी खन्यते । पुनः इभैः सिन्धुरैः गलद्भिः कपोलस्थलेभ्यो निःसरद्भिः मदाम्भोभिः दानवारिप्रवाहैर्धरा पृथिवी पङ्किलयांबभूवे जम्बालजालकलिता कृता । कैरिव । अम्भोधरैरिव । यथा मेघैः पयःप्रवाहैः भूर्जम्बालजालाकुला क्रियते ॥
संख्यातिगैस्तद्गजवाजिपत्तिशताङ्गभारोद्वहनाप्रभूष्णुम् । धात्रा कृता धारयितुं धरित्रीं स्तम्भा इवाहीन्द्रफणाः सहस्रम् ॥ ७७ ॥ धात्रा जगत्सृजा धरित्रीं क्षोणी धारयितुमतिभारासहितया पातालमूलं यान्ती रक्षितुम् । उत्प्रेक्ष्यते-सहस्रं दशशतीमिता अहीन्द्रस्य नागराजस्य फणा विस्तृतशिरांसि एव स्तम्भाः स्थूणाः कृताः प्रणीता इव । किंभूतां धरित्रीम् । संख्यां गप्प नामतिगच्छन्त्यतिक्रामन्तीति संख्यातिमा गणनातीता ये एतस्य सूरेः संमुखं प्रस्थितस्य संघस्य गजाः कुअरा वाजिनो विविधजनपदजन्माश्वाः पत्तयोऽनेकजातिपादचारिभृत्या मनुष्याः परे वा शताङ्गास्तुरङ्गऋषभरथ्यसनाथरथास्तेषां भारोऽतीववीधवः तस्योद्बहने उद्धरणे अप्रभूष्णुमसमर्थी शक्तिरहिताम् ॥
तद्धास्तिकाश्वीयरथोद्धुताभिधूलीभिरस्तारिषताखिलाशाः । क्षिप्तैर्दिगीशैरिव दिग्वधूभिः क्रीडद्भिरद्वैतरसेन चूर्णैः ॥ ७८ ॥
तस्य संघस्य हास्तिकेन गजगणेन तथा अश्वीयेन वाजिब्रजेन तथा रथैः स्यन्दनरुद्भूताभिरुत्खाताभिधूलीभिः रजोभिरखिलाः समस्ता अपि आशा दिशः अस्तारिषत । 'स्तृञ् आच्छादने' अयं धातुः । आच्छादिताः । उत्प्रेक्ष्यते-दिग्वधूभिः खहरिन्महिलाभिः सह क्रीडा रहःसमये खतन्त्रं कामपि कामलीलां वसन्तसमय इव सृजद्भिः कुर्वद्भिदिंगीशैः दिक्पतिभिरद्वैतेनासाधारणेन रसेन शृङ्गारविलासविनोदेन क्षिप्तः परस्परोडायितश्र्वासयोगैरिव । 'वासयोगस्तु चूर्ण स्यात्' इति हैम्याम् । 'अबीर' इति प्रसिद्धैः ॥ 'क्रीडां सृजद्भिहरितां महेन्द्रैः क्षिप्तैरिवाद्वैतरसेन चूणे:' इत्यपि पाटः । तस्यार्थ:-क्रीडामन्योन्यं नर्म मृजद्भिनिर्मिमाणैर्हरितां महेन्दैदिक्पाले: अद्वैतानन्यसा. मान्येन रसेन शृङ्गारविनोदेन दिग्वधूः खकीयखकीय दिक्कान्ताः प्रति क्षिप्तः प्रेरितेवगैर्वासयोगैरिव ॥
चलबलाकं कलधौतकुम्भैः कल्याणकुम्भैः सतडिद्विलासम् ।
रजोभिरभ्राङ्कमुदीतगर्ज तूरस्वरैरभ्रमिव ब्रुवे तम् ॥ ७९ ॥ __ अहं कविस्तं महोत्सवमभ्रं संजातोनततोयदमिव त्रुवे कथयामि । किंलक्षणम् । कलधौतानां रजतानां कुम्भैः कलशैः कृत्वा चलन्त्य उद्दीयमाना गगने विलसन्यो वा। 'गर्भाधानक्षणपरिचयात्' इति मेघदूतकाव्ये । बलाका वकाङ्गना यत्र । तथा कल्याण