________________
१३ सर्गः] हीरसौभाग्यम् ।
५९९ केऽपि जनास्तत्समये वनप्रदेशा विपिनभूमिभागा इव अलावू तुम्बिनीलता तुम्बकं च विशेषेणालम्बन्ते आश्रयन्ते इत्येवंशीला वंशा वेणवो येषां येषु वा अमृतीयुक्ताः केवल तुम्बकेन तन्त्रीवादका वा आसन् । तथा केचिजनास्तालधरा विशिष्टं रवन्ति ध्वनन्तीत्येवंशीला विराविणस्तादृशास्ताला व्वव्वपुटाः सशब्दतालट्ठमा वा येषां येषु वा। 'अभ्यभूयत वाहानां चरतां गात्रशिञ्जितैः । मर्मरः पवनोद्भूतराजतालीवनध्वनिः ॥' इति रघौ । इदानीमपि शुष्कपत्रास्तालतरवः सशब्दा दृश्यन्ते च । केचिजना: मुकुन्दाः कृष्णा इव कम्बु: सामान्यः शङ्खः पाश्चजन्यश्च हस्ते पाणी येषां तादृग्विधा बभूवुः । तथा केचित्पुरुषा गणा ईश्वरसेवकदेवविशेषाः । 'प्रमथाः पार्षदा गणाः' इति हैम्याम् । ते इव वीणा विपञ्ची। तथा 'गणना तु प्रभावती' इति हैमीवचनात् प्रभावतीनाम्नी वल्लकी करे हस्ते येषां तादृशा आसन्नभूवन् ॥
अपूरयन्केऽपि तदा त्रिरेखान्हंसायमानान्मुखपङ्कजाङ्के। विघ्नाधिपं किं विधृतावधानं जिघांसया विनततेः सृजन्तः ॥ ७४ ॥ केऽपि शालिकाः शङ्खवादकाः तदा तस्मिन्व्यतिकरे त्रिरेखान्कम्वूनपूरयन् प्राणवातैः पूरयन्ति स्म वादयामासुः । किंभूतान् । मुखमेव पङ्कजं कमलं तस्याङ्के उत्सङ्गे हंसायमानान् मरालानिवाचरतः । उत्प्रेक्ष्यते-विघ्नानां प्रत्यूहानां ततेोरण्या जिघांसया हन्तुमिच्छया विनाधिपं विनायकं विधृतावधानं दत्तज्ञानोपयोगम् । सावधानमित्यर्थः । किंभूताः । मृजन्तः कुर्वन्त इव ॥
गीतिं जगुः केचन रासकांश्च सूरेर्यशः केऽपि जयारवांश्च । कैश्चिन्मुदानति तमोऽप्यकर्ति प्रावति पुण्ये कुपथान्न्यवर्ति ॥ ७९ ॥ केचन जना गान्धर्विका गीति मधुरध्वनिं गानं जगुर्गायन्ति स्म । केचन रासकगा• यकाः रासकान् जन्मदिनादारभ्य सूरिपदैश्वर्यपर्यन्तान् रासान् प्राकृतभाषया चरित्रप्रबन्धान विविधपूर्वपुरुषावदातान्वा जगुः । 'के गै रै शब्दे' इति धातोः । कथयन्ति स्म गायन्ति इव । केचित्स्तुतिव्रताः पुरुषाः सूरे द्वारकस्य यशः जगजनजेगीयमानां कीर्तिं गायन्ति स्म । केऽपि मङ्गलपाठकाः जयारदान, जयजयेति शब्दानुदीरयन्ति म । पुनः कैश्चिनर्तकैः अनर्ति नृत्यं चक्रे। कया। मुदा प्रमोदाधिक्येन ।अपि पुनस्तमः खाज्ञानं निजपापं वा अकति मूलाच्छेदितम् । पुनः कश्चिद्भविकैः । पुण्ये इदं सर्वमप्युत्सवादिकं पुण्याधीनं तदैहिकामुध्मिककामिवत्तत्तदेव कुर्म इति पुण्यविषये प्रावर्ति प्रवर्तितम् । अत एव कुपधादुन्मार्गान्यवर्ति गुरुभक्तीभूतमन्यैी तन्माहात्म्यावलोकनान्मिथ्यादृशां कुपक्षाणां वा मार्गान्मताद्वातिवर्तितम् ॥
खुरैरखानि प्रचलत्तुरङ्गैर्धात्री खनित्रैः खनकैरिवात्र । गलन्मदाम्भोभिरिभैरिवाम्भोधरैर्धरा पङ्किलयांबभूवे ॥ ७६ ॥