________________
१९८
काव्यमाला। साक्षाचक्षुर्लक्षीकर्तुमुपेयिवांस: समागताः । किंभूताः । मृगाङ्काः सलक्ष्माणश्चन्द्रा इव । 'राकामृगाका: संसूय विभान्ति शरणागताः' इति पाण्डवचरित्रे पूर्णेन्दुबाहुल्यम् ॥
पुरश्चरन्तः पथि हर्षहेषामिषात्तदा वल्गितवेल्लिताङ्गाः ।
गायन्ति गन्धर्वगणा गणेन्द्रगुणान्वितन्वन्त इवाङ्गहारम् ॥ ७० ॥ ___ पथि मार्गे पुरः फतेपुरसंघस्य पुरस्ताच्चरन्तो गन्धर्वाणां वाजिनां देवगायनानां च गणाः हर्षेणे युक्ताः हेषा हयध्वनयः । 'हेषा द्वेषा तुराणाम्' इति हैम्याम् । तासां मिषात्कपटात् गणेन्द्रस्य गच्छपुरंदरस्य हीरसूरेर्गुणान् गायन्ति । किंलक्षणाः । वल्गितद्वितीयगतिविशेषैः कृत्वा वेल्लितमन्दोलितं चञ्चलीकृतमहं कायो यैस्ते । तत्राप्युप्रेक्ष्यते-अङ्गहारमङ्गविक्षेपं नृत्याङ्गविशेषं वितन्वन्तो विस्तारयन्त इव ॥ . व्यसीसृपच्छ्रोत्रसुधायमानगाना तदा वैणिकपङ्क्तिरग्रे। . . किमागतामिन्द्रपुरी पुरी तां रसादिक्षुस्तुरगास्यसंसत् ॥ ७१ ॥ तदा तत्र प्रक्रमे वैणिकानां पतिधोरणी अग्रे संघस्य पुरस्ताद्यसीसपद्विसर्पति स्म प्रचचाल । 'गच्छति विसर्पत्ययत्ययते' इति क्रियाकलापे । किंभूता। श्रोत्रयोः श्रोतृश्रवणयोः सुधायमानममतमिवाचरत् गानं गीतं यस्याः । उत्प्रेक्ष्यते-अतिक्रान्ता खवैभवैः पराभूता इन्द्रपुरी अमरावती यया तस्याः सर्वनगरीभ्योऽतिशायित्वात् तादृशीं श्रीकरी नाम नगरी रसादाश्चौत्सुक्यादिदृक्षुष्टुमिच्छुरागता समेता तुरगा. स्यानां किंनराणां संसत्सभा इव समूह इव । 'उडुपरिषदः किं नार्हन्ती निशः किमनौचिती' इति नैषधे । 'उडुपरिषदः तारासमूहस्य' इति तद्वृत्तौ ।। निःस्वानवृन्दे प्रददुः प्रहारान्केचिद्विपक्षव्रजवक्षसीव । अताडयन्केऽपि पुनर्मुदङ्गानमी सरन्ध्रा द्विमुखा इतीव ॥ ७२ ।। केऽपि निःस्वानवादका जना निःखानानां राजवाद्यानां 'दामांमा' इति प्रसिद्धानां वृन्दे प्रकरे प्रहारान् दण्डमहतीः ददुः । वादयन्ति स्मेत्यर्थः । विपक्षानां जिनशास. नप्रत्यनीकानां व्रजानां समुदायानां वक्षसि हृदये इव प्रहारान्ददते । दुर्वादिहृदयानीव ताडयन्ति । पुनः केऽपि मार्दङ्गिकाः 'माद्दलिया' इति प्रसिद्धाः मृदगान्मुरजानताडयन् धोंधों दोंदों वा इति शब्दं कारयन्ति स्म । उत्प्रेक्ष्यते इति हेतोस्ताडयन्ति । इति किम् । यदमी यत्कारणादेते सह रन्|दोषैश्छिद्रेर्वा वर्तन्ते इति सरन्ध्राः सापगुणाः तथा द्विमुखाः कर्णेजपवद्धे मुखे येषां ते । एकत्र पृथक् वदन्ति, अपरत्र च भिनं वदन्तीति द्विमुखत्वम् । मृदङ्गास्तु नरमादलक्षणत्वे द्वयोः पार्श्वयोः शब्दायन्ते ॥ वनप्रदेशा इव केऽप्यलाबूव्यालम्बिवंशा सविरावितालाः । केचिन्मुकुन्दा इव कम्बुहस्ता वीणाकराः केऽपि गणा इवासन् ॥७३॥