________________
१३ सर्गः]
हीरसौभाग्यम् ।
भामिति शब्दं कुर्वन्तीति भांकारिण्य स्तादृश्यो भेर्यो दुन्दुभयः अतिलम्बास्ताम्रमया तयुक्ता या निनदन्यः शब्दायमानाः नफेर्यः पित्तलमयाः विचित्ररचनावत्यः सुखवाद्या वादिनविशेषास्ताः कर्णातिथीकृत्य स्वश्रवणानां प्राघुणीः प्रणीय । श्रुत्वेत्यर्थः । कुत्सितः सिद्धान्तविरुद्धः पक्षः स्वीकारो येषामेतावतां कुमतभाजाम् अथवा मिथ्यादृशा लक्ष: परोलक्षः निर्घोषो नितरां घोषः कटत्कारः . भयानकगर्जितं विद्या ‘तया सुता निर्घोषिण्यः ताश्च ता वर्षाश्च प्रावृपः तासाम् । वर्षाशब्दस्य बहुवचनान्तत्वात् । शरभीवभूवे। अष्टापदीभावं भेजे । वर्षासु मेघगर्जितं निशम्य शरभा उत्पत्योत्पत्य भूमौ पतित्वा म्रियन्ते । तथा भेरीनफेरीशब्दानाकर्ण्य कुपाक्षिका अपि मृतप्राया इव जायन्ते स्म । किं कुर्वतीः नफेरी: । नादैः खाद्वैतशब्दैदिगन्तानपि निखिलहरितामवसानगहराण्यपि पूरयन्तीनिर्भर भरन्तीः ॥ · संध्याद्रुहः केऽप्यवहन्विहायोलिहः शयाम्भोरुहि वैजयन्तीः ।
प्रकाशयन्तः प्रति मुक्तकान्तं मूर्तानुरागानिव रन्तुकामाः ॥ ६७ ॥ केऽपि भव्याः अनुचरा वा शयाम्भोरुहि करकमले। एकवचनं जातिवाचित्वात् । पाणिपद्मवित्यर्थः । वैजयन्तीः पताका अवहन् धारयन्ति स्म । उत्प्रेक्ष्यते-रन्तुकामाः क्रीडितुमिच्छवः सन्तः मुक्तकान्तं सिद्धवर्धू प्रति मूर्ताननुरागानिव प्रकाशयन्तः प्रकटीकुर्वन्तः इव । किंभूता वैजयन्तीः । संध्यां संध्यारागश्रियं रक्ततया द्रुह्यन्तीस्तस्य स्पधिनीः । पुनः किंभूताः । विहाय आकाशं लिहन्ति स्पृशन्ति इति गगनमण्डलोलेखिनीः । अतितुङ्गाः इत्यर्थः ॥
मृगीदृशः कांचन शातकौम्भान्कुम्भाशिरोभिाबेभरांबभूवुः । प्राक्खगृहीतां सुषमा स्तनेभ्यः पश्चाजिघृक्नुपजग्मुषः किम् ॥ ६८॥ . कांचन मृगीदृशः सधववध्वः शिरोभिरुत्तमाङ्गैः कृत्वा शातकौम्भान् वर्णमयान्कु. म्भान् कलशान्बिभरांबभूवुः बिभ्रति स्म । उत्प्रेक्ष्यते-प्राक् पूर्व खामात्मीयां गृहीतां पराभूयोपात्तां सुषमां सातिशायिनी स्तनेभ्यः युवतीप्रौढपयोधरेभ्यः सकाशात्कथंचनानुनयादिना पश्चाजिघृक्षुन् ग्रहीतुमिच्छून् । किंभूतान् । उपजग्मुषः आगतानिव ॥
रौप्यानिपा नीलकजापिधाना मूर्धस्वधीयन्त तदा पराभिः । महामहं तं वचनाप्यदृष्टं द्रष्टुं मृगाङ्काः किमुपेयिवांसः ॥ ६९॥ तदा तस्मिन्प्रभुप्रवेशोत्सवे पराभिरन्याभिः पद्मवदनाभिः रौप्या रजतनिर्मिता निपाः कलशाः मूर्धसु मस्तकेध्वधीयन्त ध्रियन्ते स्म । किंलक्षणाः । नीलकजस्य इन्दीवरस्य अपिधानमाच्छादनं येषु । 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' अस्मादत्र विकल्पो ग्राह्यः । तेनावगाहो वगाहश्च, अपिधानं पिवानं चेति । तदेव नैषधेऽप्याह-व्रजति कुमुदे दृष्टा मोहं दशोरपिधायके' इति । उत्प्रेक्ष्यते-कचनापि कुत्रापि स्थाने अदृष्टं न नयनाभ्यां निभालितं तं जगदद्वैतमहामहमतिशायिनमुत्सवं द्रष्टुं