________________
काव्यमाला।
तदा तस्मिनुत्सवे पुरः पुरस्तात्संघाने तुरङ्गा अश्वा रङ्गन्ति स्म। सौवर्णपयाणादिभिः शृङ्गारिताः अनधिरूढनरा लोके 'जलमतीघोडा' इति प्रसिद्धाः । ते पुरतः प्रचेलुः । उच्चैःश्रवस इन्द्राश्वस्य अनुबिम्बाः प्रतिकृतय इव । किं कुर्वाणाः । विधुना चन्द्रेण सह सगर्भभावं भ्रातृत्वम् । 'सगर्भसहजा अपि' इति हैम्याम् । तुल्यवर्णेन समुद्रोत्पन्नत्वेन च चन्द्रोच्चैःश्रवसोः तथा। पुन: किंभूताः । सारखताः काश्मीरदेशोद्भवाः । तथा मत्यः सम्यग्लक्षणयुक्तत्वेन मनुष्यनिषेव्याः उपास्यमानाः । पक्षे सरखति समुद्रे । 'यादःस्रोतो वानंदीश: सरखान्' इति हेम्याम् । भवः सारखतः । तथा अमखैः इन्द्राश्वत्वात्सुरैः संसेव्यमानः । ततोऽत्र कर्मधारयः ॥
यस्मिञ्जयन्त्यः कलकण्ठकण्ठाजगुः समुत्कण्ठितकम्बुकग्ठ्यः । सिद्धाङ्गनाः खर्गिगिरेधरायां गुणान्गणीन्दोरिव गातुमेताः ॥१४॥ यस्मिन्महोत्सवे समुत्कण्ठिताः गुरुगुणान् गातुं सम्यक् त्रिधाप्युत्कण्ठा औत्सुक्यं जातमासामिति समुत्कण्ठिताः कम्बुकण्ठ्यः सलक्षणलक्ष्मीवन्मृगाक्ष्यः जगुर्मधुरं गायन्ति स्म । किं कुर्वन्त्यः । कलकण्ठानां कोकिलानां कण्ठान् ध्वनीन् जयन्त्यः । 'कण्ठो. ध्वनौ संनिधाने ग्रीवायां मदनद्रुमे' इत्यनेकार्थः । उत्प्रेक्ष्यते-गणीनां साङ्गप्रवचनेऽधीतानामिन्दोश्चन्द्रस्य सूरीन्द्रस्य गुणान् गातुं गानगोचरीकर्तु खर्गिगिरेमॅरुपर्वतादेता आगताः सिद्धा देवविशेषास्तेषामङ्गनाः स्त्रिय इव । किं च किंनरसिद्धाङ्गना एव गीतौ प्रसिद्धिभाजः । यदुक्तं भोजप्रबन्धे-'देव त्वं जय कासि लुब्धकवधूर्हस्ते किमेतत्पलं क्षामं किं सहजं ब्रवीमि नृपते यद्यास्त ते कौतुकम् । गायन्ति त्वदरिप्रियाश्रुतटिनीतीरेषु सिद्धाङ्गना गीतान्धा न तृणं चरन्ति हरिणास्तेनामिषं दुर्बलम् ॥' इति । तथा च 'यस्मिन्नासन्नसारङ्गाः सारं गायति किंनरी' इति चम्पूकथायाम्। किं,च । मेरुः सुरावासः सर्वेषामपि देवानां साधारणवासत्वात्सिद्धानामप्यावासः । ततस्तत आगमनं युक्तमेव ॥
द्विपैव्येतायन्त पटिष्ठघण्टाटङ्कारवाव्याहतबृंहितानि । महीतलोद्वासितदुर्नयस्य प्रस्थानढक्काक्कणितानि मन्ये ॥ १५ ॥ द्विपैर्वारणैरतिशयेन पनि पटिष्ठानि तथा घण्टानामन्तर्लम्बितायतदृढलालाभिवाद्यमानवाद्यविशेषाणां देवगृहादौ गजघण्टादिषु च प्रसिद्धानां टङ्कारवैष्टणत्कृतिकृतिकृ.
निविशेषैरव्याहतानि अनिद्रुतानि बहुलीकृतानि बंहितानि गजगर्जारवाः व्यतायन्त विस्तार्यन्ते स्म । गजशब्दा बृहितान्युच्यन्ते। यदुक्कं हैम्याम् –'गजानां गर्जबंहिते' इति । उत्प्रेक्ष्यते-महीतलाद्भूमीमण्डलादुद्वासितस्य निष्कासितत्य दुर्नयस्यान्यायस्य प्रस्थाने प्रचलने ढक्का पटहः । 'ढक्का भेरी दुन्दुभिरानकः' इति हैम्याम् । तस्य क्वणितानि प्रयाणपटहध्वनय इव ॥
भांकारिभेरीनिनदन्नफेरी दैदिगन्तानपि पूरयन्तीः । कर्णातिथीकृत्य कुपक्षलनिर्घोषिवर्षाशरभीबभूवे ॥ ६६ ॥