SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। वाचंयमानां वाक्सुमतिमाजां यतीनां वासवस्य इन्द्रस्य तां धर्मदेशनां निशम्य श्रवणपारणां प्रणीय बैणसखा स्त्रीसमूहाः सखायो येषाम् । स्त्रीभिः सहिता इत्यर्थः । परस्परमन्योन्यं स्पर्धितया संहर्षशीलभावेन अमानैर्मानातीतैर्दानैर्द्रविणविश्राणनैर्ववर्ष: वर्षन्ति स्म । क इव । वारणेन्द्रा इव । यया कुअरराजा गन्धसिन्धुरा अमानैः कपोललोचनमेद्गुदकरलक्षणसप्तसु स्थानकेषु अविरलनिर्गलनतया मानातीतैर्दानैर्मदवारिमिर्षन्ति ॥ वदान्यविश्राणनमीक्षमाणो मालिन्यमालम्बत राजराजः।.. अन्वर्थनामा प्रथितस्त्रिलोक्यां कुबेर इत्येष तदादि विद्मः ॥९८॥ तदेत्यध्याहारस्वत्समये वदान्यानां दानशौण्डानां विश्राणनं विविधांशुकरजतसुव.. भिरणादिप्रदानमीक्षमाणः खलोचनाभ्यां साक्षाद्विभावयन् धनेश्वरत्वेन पुष्पकविमा: नाधिरोहणभुवनविलोककत्वेन च साक्षादीक्षणं राजराजः राज्ञामपि राजा चक्रवर्ती यक्षेश्वरश्च धनदः । 'यक्षः पुण्यजनो राजा गुटको वटवास्यपि' इति हैम्यांम् । तथा 'कैलासौका यक्षधननिधिकिंपुरुषेश्वरः' इत्यपि हैम्याम् । मालिन्यं यद्यप्यहं दानशूरोऽस्मि तथाप्येतेषां गणनातिगकामिताधिकदानाग्रे वदान्यगणनायामहं न किंचिदपीति विच्छायतामालम्बत श्रयते स्म । तत्र मालिन्ये वयमेवं विद्मः । तदादि तद्दिनादारभ्य एष राजराजः कुत्सितं विच्छायीभवनादनीदृशं वेरं शरीरं यस्य स कुबेर इत्यमुना प्रकारेण अनुगतः सदृशीभूतोऽर्थो यत्र तदन्वर्यम् । सत्यार्थमित्यर्थः । नामाभिधानं यस्य तादृशत्रिलोक्यां जगत्रयेऽपि प्रथितो विख्याति प्राप्तवानिव ॥ तदार्थिवाञ्छावचनानुरूपं विहापितं सप्तहयोऽवसाय । करान्सहस्रं प्रविसाय वाहमिवाष्टमं तत्पुरतो वृणीते || ९९॥ तदा तस्यां दानवेलायां सप्तहयः सूर्यः सहस्रं दशशती करान् सहस्रसंख्याकान् हस्तान् विसार्य कराः किरणाः हस्ताश्च । अष्टमं वाहं तुरङ्गं तेषां वदान्यानां. पुरतोऽग्रे वृणीते याचतीव । किं कृत्वा । अर्थिनां याचकानां वाञ्छाया मनसोऽभिलषितस्य वच. नस्य याचनारूपवाक्यस्य चानुरूपं तुल्यं योग्यं वा विहापितं वितरणम् । दानमित्यर्थः । अवसाय विज्ञाय ॥ इति सूरिदेशनानन्तरं श्राद्धदानम् ॥ • अथ. वर्षागमनारम्भ:हन्तुं तपतॊरिव तापमुास्तदाम्बरेऽम्भोधर उल्ललास । पुरंदरः सूरिपुरंदरस्य विवन्दिषुः पत्कजमागतः किम् ॥ १० ॥ यदा यस्मिन्नेव दिवसे श्रीहीरविजयसूरयो जगन्मल्लकच्छवाहगृहे समेतास्तदा तस्मिन्नेव वासरापराह्नसमये अम्बरे आकाशेऽम्भोधरः सजलजलवाहः उल्ललास उन्नमा व्यायाति स्म । उत्प्रेक्ष्यते-उर्व्याः पृथिव्यास्तप”ीष्मकालस्य । निदाघसमयजनितमित्यर्थः । तापं संज्वरं तप्तिबाहुल्यं हन्तुं व्यापादयितुमिव । पुनरुत्प्रेक्ष्यते-सूरिपुरंद
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy