________________
१३ सर्गः] हीरसौभाग्यम् ।
१९३ ___ संघः आगराफतेपुरश्राद्समुदायो मुनीन्दोहीरविजयसूरेरभिमुखं प्रतस्थे प्रचलति स्म । किं कुर्वन् । अकुण्ठामत्यभ्यधिकामुत्कण्ठामौत्सुक्यमस्यास्तीत्युत्कण्ठी तस्य भाव उत्कण्ठिता तामाकलयन्दधत् । के इव । कूलंकषाकान्त इव । यथा कूलं मर्यादाभूमी कषन्ति विलेिखन्ति पातयन्तीति कूलंकषा नद्यस्तासां कान्तो भर्ता समुद्रो वृद्धा वृद्धि प्राप्ता उपचिता ये कल्लोलास्तरङ्गास्तैः शालते शोभते इत्येवंशील: सन् रजनीश्वरस्य विधोरभिमुखं प्रतिष्ठते॥
सुवर्णकायानतिवातवेगान्वीडाविशेषैः क्षितिमस्पृशन्तः । · कृष्णा इवाध्यारुरुहुर्वहन्तः श्रियं हरीन्केचन चक्रहस्ताः ॥ १४ ॥ . केचन जनाः हरीनश्वानारुरुहुः अध्यासामासुः। के इव । कृष्णा इव । यथा नारायणा हरीन् गरुडानारोहन्ति । किं कुर्वन्तो जना नारायणाश्च । वहन्तो धारयन्तः । काम्। श्रियम्, विविधवस्त्राभरणादेिशोभां लक्ष्मी च। उभयेऽपि कमलां कलयन्तो वा । पुनः किंभूताः । चक्रं रथाङ्गमाकृत्या मूर्तिमद्वा सुदर्शनं हस्ते पाणौ येषाम् । किंलक्षणान् हरीन् । मुशो. भनो वर्णो रक्तपीतश्वेतादिको येषाम् । यदुक्तं हैम्याम् -'सिते तु तत्र कोकाही खोङ्गाहः श्वेतपिङ्गले। पीयूषवणे सेराहः पीते तु हरयो हये ॥ कृष्णवर्णे तु खुङ्गाहः क्रियाहो लोहितो यः । आनीलस्तु नीलकोऽत्र त्रियूहः कपिलो हयः ॥' इत्यादिवचनात् । पक्षे । खर्णकायास्तन्मयत्वात् । यदुक्तं हैम्याम्-'पक्षिखामी काश्यपी वर्णकायः' इति । पुन: किंभूताः । अतिक्रान्ता वातानां पवनानां वेगो यैईयेऽपि । पुनः किंभूताः। वीङ्खानां धौरित-बल्गित-प्लुति-उत्तेजित-उत्तरिताभिधानानां धारागतीनां विशेषैरतिशयैविविधप्रकारैर्वा। 'धौरितं वल्गितं प्लुत्युत्तेजितोत्तरितानिव । गतयः पञ्च धाराख्यास्तरङ्गाणां • क्रमादिमाः॥ इति हैम्याम् । क्षिति क्षोणीमण्डलमस्पृशन्तः पादै संघट्टयन्तः शीव्रगामितया । अथ वा उत्तालफालललितैर्भूमी स्पृशन्तोऽपि न दृश्यन्ते । यदुक्तं नैषधे-'ह. ग्ज्ञेयकेवलनभःक्रमणप्रवाहैर्वाहैरलुप्यत सहस्रहगर्वगर्वः' इति । पक्षे खगतया ॥ बभुर्विभूषांशुतडिद्वितानान्गोंर्जितस्पन्दिमदाम्बुधारान् ।
शक्रेण कायाः कुतुकात्कृताः किं यानाम्बुदान्केचिदिभान्भजन्तः॥१५॥ • केचिजनाः बभुः शुशुभिरे । किं कुर्वन्तः । इभान् हस्तिनो भजन्तोऽध्यारोहन्तः । उत्प्रेक्ष्यते-कुतुकात्कौतूहलात् शक्रेण कायाः स्वशरीराणि किं कृताः । किं कुर्वन्तः कायाः। यानानि वाहनीभूतानम्बुदान्मेघानाश्रयन्तः। 'संक्रन्दनाखण्डलमेघवाहनाः' इति हैम्याम् । इभानम्वुदांश्च किंलक्षणान् । विशिष्टा भूषा आभरणानि तेषामंशवः किरणा एव तडितां विद्युतां वितानं वृन्दं येषां तान् । 'विनैव भूषामवधिः श्रियामसौ' इति नैषधे । 'भूषा आभरणानि' इति तदृत्तिः । विशिष्टाः शोभा येषां तादृशा अंशवो यासां तादग्विधानां सौदामेनीनां मण्डलं येषु । गर्जाभिर्गारवैः कृत्वा उभयेऽप्युर्जिताः प्र. बलाः स्पन्दन्ति क्षरन्ति इत्येवंशीला मदा दानानि त एवाम्बूनि जलानि तेषां धाराः