SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ ५९४ काव्यमाला। प्रवाहा येषु स्पन्दन्ति निष्पतन्ति इत्येवंशीला मदेनाहंकारेण एककेभ्योऽभ्यधिकाभ्य. धिका । अथ वा ग्रीष्मतप्तीभूतं भूलोकं निर्वापयिष्यामः शीतलीकरिष्याम इति मदेन हर्षेण युक्ताः पयसां धारा येषाम् । 'मदो रेतस्यहंकारे मद्ये हर्षेभदानयोः । कस्तूरिकायां क्षैव्ये च' इत्यनेकार्थः । पश्चात्कर्मधारयः ॥ रथ्यैः सनाथान्मणिशातकुम्भसंदर्भग न्रथिकैः श्रिताङ्कान् । मरुद्रथान्स्वःसदना इवात्र व्यभूषयन्केऽपि पुनः शताङ्गान् ॥५६॥.' अत्र संमुखागमनोत्सवे पुनः केऽपि जनाः शताशान् रथान् व्यभूषयन् अलंकुर्वन्ति स्म । किंभूतान् । रथ्यैरश्वैर्वृषभैर्वा सनाथान् सहितान् । पुनः किंभूतान् । मणीनां नानाविधरनानां शातकुम्भानां वर्णानां संदर्भो रचना गर्भे मध्ये येषाम् । पुनः किंभूतान् । रथिकैः रथारोहिभिः श्रितः सेवितः अङ्क उत्सङ्गो येषाम् । के इव । स्वःसदना इव । यथा देवा मरुद्रयान् दिव्यस्यन्दनान् विभूषयन्ति ॥ स्थलप्रफुल्लन्नवहैमपद्मलेखाविभूषामिव लम्भयन्तः । क्रमद्वयीचङ्क्रमणक्रमेणालंचक्रिरे केचन वार्धिकाञ्चीम् ॥ १७ ॥ __ केचन जना क्रमयोश्चरणयोर्द्वयी तया यच्चक्रमणं प्रचलनं तस्य क्रमेण परिपाट्या वाधिकाची भूमीमलंचक्रिरे भूषयन्ति स्म । उत्प्रेक्ष्यते-स्थले जलातिरिक्त प्रदेशे प्रफुलन्ति विजृम्भमाणानि नवानि प्रथमप्ररूढानि हैमानि कनकसंबन्धीनि पद्मानि कमलानि तेषां लेखाः श्रेणयस्तासां विभूषां शोभां लम्भयन्तः प्रापयन्त इव । उत्फुलस्थलपद्माभभवच्चरणभूषिता' इति चम्पूकथायाम् ॥ दधुस्तदा जन्मजुषो विभूषां भूषाविशेषान्वपुषा वहन्तः । श्रिया जितेनामरसद्मनेवोपदीकृताः खीयसुरा नगर्याः ॥ ५८ ॥ तदा तस्मिन्नवसरे जन्मजुषो मनुष्या विभूषामलंकारादिकं दधुर्धारयन्ति स्म । किं कुर्वन्तः । वपुषा शरीरेण भूषाणां शोभानां विशेषानतिशयान् वहन्तः दधतः । उत्प्रे. क्ष्यते-श्रिया लक्ष्म्या कृत्वा जितेनाभिभूतेन अमरसद्मना स्वर्गेण नगर्याः श्रीकर्याः खीया आत्मीयाः सुरा देवा उपदीकृता ढौकिता इव ॥ आरुह्य वाहं पितुरिन्द्रसूनुः स्निग्धैर्निखेलन्किमनेकमूर्तिः । पर्याणितप्रौढहयाधिरूढाः शृङ्गारिता भान्ति तदा कुमाराः ॥ ५९ ॥ तदा तस्मिन्प्रस्तावे शृङ्गारो वस्त्रालंकारादिवेषः संजात एषामिति शृङ्गारिताः । अथ वा शृङ्गारसहितान्कुर्वन्तीति शृङ्गारयन्ति शृङ्गार्यन्ते स्मेति शृङ्गारिताः कुमारा भान्ति शोभन्ते । किंलक्षणाः । पर्याणं पल्ययनं जातमेषामिति पर्याणिताः । पर्याणयुकं कुर्वन्तीति पर्याणयन्ति पर्याण्यन्ते स्मेति पर्याणिता वा तथा प्रौढाः प्रगल्भाः पुरुषप्रमाणा वा हया अश्वास्तानधिरूढाः । 'जवेऽपि मानेऽपि च पौरुषाधिकम्' इति नैषधे ।
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy