________________
१३ सर्गः] हीरसौभाग्यम् ।
१९१ मधोः पिकीकान्त इवैष युष्मत्समागमं काङ्क्षति भूमिकान्तः । तद्वाचकेनेत्युदितो व्रतीन्द्रः फतेपुरोपान्तभुवं बभाज ॥ ४५ ॥ व्रतीन्द्रो हीरसूरिः फतेपुरस्योपान्तभुवं समीपक्षोणी बभाज शिश्राय । श्रीकरीपाचे समेत इत्यर्थः । किंलक्षणः । तद्वाचकेन स चासौ य: साहिपार्श्वे गत्वागतो वाचकश्च तेन इत्यमुना प्रकारेण उदितः कथितः। विज्ञप्त इत्यर्थः । इति किम् । हे प्रभो, एषोऽक. ब्बरनामा भूमिकान्तः पृथ्वीपतिः युष्माकं समागममागमनं काकृति वाञ्छति । क इव । पिकीकान्त इव । यथा कोकिलावल्लभो मघोर्वसन्तसमयस्य समागमं कामयते ॥ इति फतेपुरसमीपे प्रभोरागमः ॥
अश्रावि संघेन ततः प्रवृत्तिर्जनाननात्सूरिसमागमस्य ।। द्वीपान्तरोपागतपण्यपूर्णपोतव्रजस्य व्यवहारिणेव ॥ ४६॥ ततः सूरेः फ़तेपुरसमीपागमनानन्तरं संघेन श्रीकरीश्राद्धवर्गेण जनानां वर्धापनिका. दायकानामाननान्मुखात्सूरेः समागमस्य प्रभोः पादावधारणस्य प्रवृत्तिर्वार्ता अश्रावि श्रूयते स्म । केनेव । व्यवहारिणेव । यथा व्यापारिणा द्वीपान्तरेभ्यः अन्योन्यद्वीपेभ्यः उपागतानां तथा पण्यैः क्रयाणकैः पूर्णानां भृतमध्यानां पोतानां यानपात्राणां गणस्य समूहस्य समागमवार्ता श्रूयते ॥
उपायनींकृत्य नृपरिवैतन्महीमघोनः कनकांशुकादि । तदागमोऽभाष्यत थानसिंहामीपालमानूमुखसंघमुख्यैः ॥ ४७ ॥
थानसिंहो रामाङ्गजसाहिसेवकः, तथा अमीपालोऽपि साहेः प्रतिदिननालिकेरढीकन. कृतू , तथा मानूमुखा: आद्या येषु तादृशैः संधैः श्राद्धवगैः मुख्यैः प्रकृष्टैः श्राद्धैः एत
न्महीमघोनः अकब्बरसाहेस्त दागमः सूरेरागमनमभाष्यत प्रोच्यते स्म । किं कृत्वा । नृपैरन्यभूपालैरिव कनकं खर्णमंशुकानि वस्त्राणि आदी यस्य तादृग्वस्तुजातमुपायनीकृत्य ढौकयित्वा ॥
आज्ञां तवासाद्य समग्रभूमीपालाङ्कपकेहभृङ्गिताङ्ग्रेः । कुमों जिनस्येव वयं प्रवेशमहं मुनीन्दोर्महनीयकीर्तेः ॥ ४ ॥ समग्राः समस्ता ये भूमिपाला राजानस्तेषामङ्क उत्सङ्गः स एव पकेरुहं पद्मं तत्र भृङ्गितौ भ्रमराविवाचरितौ अङ्गी चरणौ यस्य तत्संबोधनम् । हे साहे, तवाज्ञामादेशमासाद्य संप्राप्य वयं त्वदीया महाजनजनाः श्रावकाश्च महनीया जगजनश्लाघ्या कीर्तियशो यस्य तादृशस्य तीर्थकरस्येव मुनीन्दोः श्रीमदाहूतश्रीहीरविजयसूरेः प्रबेशस्य फतेपुरमध्ये समागमनस्य महमुत्सवं कुर्मः ॥
प्रभोर्निपीयोपगमं प्रमोदप्रोत्फुल्लवाम्बुरुहो महीन्द्रः। सुधां खगाम्भीर्यजिताब्धिनेवोपदीकृतामुच्चरति म वाचम् ॥ १९ ॥