________________
५९० .
काव्यमाला।
त्येवंशीलस्तादृक् राजेव शुभंयुः शुभसंयुक्तः कल्याणवान् वरिवर्ति अतिशयेन कुशली वर्तते । पुनरधुना साङ्गानगरं सांगानेरनाम पुरं पुनानः पवित्रीकुर्वाणोऽस्ति । हे साहे, नातिदूरे नेदीयस्येव वर्त्मनि मार्ग वितिष्ठन्ते । पुनः वर्मणि खशरीरे वार्धकेन वृद्धावस्थया विभूषितः शोभितः । यदुक्तम्-'अलंकरोति हि जरा राजामात्यभिषग्यतीन्' इति सूक्तेः।तत्तस्माद्वार्धककारणात् पथि मार्गे मन्दं मन्दं शनैः शनैः संचरिष्णुः संचरणशीलोऽस्ति । तथा खल्पैरेव वासरैः स्तोकैरेव दिनैः समेता श्रीमत्पावे समायास्यति ॥ इति विमलहर्षोपाध्यायस्य साहिना मिलनगोष्टीपश्चादागमनानि ॥ तद्वाचकेन्द्रादधिगत्य वार्ती श्राद्धैनिनंसोत्सुकितैः प्रमोदात् । अभ्येत्य भव्यैरिव तुङ्गिकायाः पुरो जिनेन्द्रः स ततः प्रणेमे ॥ ४२ ॥ . ततोऽकब्बरपादुिपाध्यायागमनानन्तरं स चासौ वाचकश्च तद्वाचकस्तस्माद्विमल.. होपाध्यायसकाशात् साहिप्रोक्ता वार्तामधिगत्य सम्यक् ज्ञात्वा निनंसया सूरि नन्तु-. मिच्छया उत्सुकितैरुत्कण्ठितः श्राद्धैः श्रीकरीश्राद्धजनैरभ्येत्य साङ्गानगरं यावत्संमुखमागत्य पुरः फतेपुरसंघस्य प्रथमतः प्रमोदादानन्दात् स सूरिः प्रणेमे नमश्चक्रे । कैरिव । भव्यैरिव । यथा तुङ्गिकायास्तुङ्गियानाच्या नगर्या भविकैः श्रावकैः अभ्येत्य जिनेन्द्रो महावीरः प्रणमते स्म ॥
दत्तां सुरेभ्यो हरिणाम्बुनाथमाघेऽधिगत्येव सुधां सुरेन्द्रः । प्रीतेभ्य एभ्यः प्रभुरप्यवेत्योदन्तं तमन्तर्मुदमादधार ॥ ४३ ॥
प्रभुहीरसूरिरपि प्रीतेभ्यो हृष्टेभ्य एभ्यः संमुखागतश्रावकजनेभ्यस्तं विमलहोंपाध्यायसत्कमुदन्तं साहिमिलनादिवृत्तान्तमवेत्य ज्ञात्वा अन्तश्चित्तमध्ये मुदं हर्षमादधार विभर्ति स्म । क इव । सुरेन्द्र इव । यथा पुरंदरः शक्रः अम्बुनाथस्य जलपतेः समुद्रस्य । 'यादःस्रोतोवानंदीशः' इति हैम्याम् । माघे मधनसमयावसाने हरिणा नारायणेन दत्तां विश्राणिताम् अत एव प्रीतेभ्यः यदर्थ समेता सा सिद्धिः सुराणां समजनि ततः प्रीति प्राप्तेभ्यः सुधाममृतमधिगत्य प्राप्य मनसि मोदमाधत्त दधौ ॥ .
पवित्रयंस्तीर्थ इवाध्वजन्तून्पुरेऽभिरामादिमवादनानि । यावत्समेतः प्रभुरेत्य तावबाग्वाचकेन्द्रेण नतः स तावत् ॥ ४४ ॥
स प्रभुहीरसूरिस्तावत्तस्मिन्नेव समये द्राक् शीघ्रमागत्य फतेपुरादभ्येस्य विमलहोंपाध्यायेन नतो नमस्कृतः । कदा । यावद्यस्मिन्नेव समये अभिरामा इति पदमादिमं यत्र तादृग्वाद इति नाम यस्य तादृशे पुरे एतावता अभिरामवादनगरे समेतः सम्यक् सुखेन आयातः । किं कुर्वन् । तीर्थ इव । तीर्थशब्दः पुनपुंसके । 'प्रस्थं तीर्थ प्रोथमलिन्दः' इति लिङ्गानुशासने । शत्रुजयादिरिव अध्वजन्तून्मार्गवासिनो मनुष्यान् पवित्रयन् पावनीकुर्वन् । तीर्थमपि अध्वना मागंण कृत्वा समायातान्यात्रिकालोकान्पुनाति ॥