________________
. १३ सर्गः ]
हीरसौभाग्यम् ।
९८९
अथेत्यपरप्रारम्भे मेदिनीपुरात्प्रभोः प्रस्थानात्प्राक् पूर्वे भूपं प्रति प्रहितः प्रेषितो त्रिमल इति पदमादौ यस्य तादृग्विधो हर्ष इति नामा श्रियोपाध्यायपदशोभया सहितो वाचकेन्द्र एतावता विमलहर्षोपाध्यायः तावत्समय एव फतेपुरे अगाद्गच्छति स्म । जगामेत्यर्थः । किंलक्षणः । विदग्धवृन्देन पण्डितमण्डलेनानुयातः । अनुगम्यमान इत्यर्थः । क इव । सैन्येश इव । यथा चक्रवर्तिना खमित्रमिलनार्थं कश्चित्सैन्येन कटकेनानुगतः प्रहितः सेनापतिश्चक्रिमित्रनगरे गच्छति । तावत्कुत्र । यावद्वाचंयमानां मुनिनां सार्वभौमश्चक्रवर्ती यावता समयेन साङ्गां नगरं पवित्रीकरोति पुनाति । किं कर्तुमिच्छुः । फतेपुरं गन्तुमिच्छुः श्रीकरीनगरीं यातुकामः । उत्प्रेक्ष्यते - सागरमेखलायाः समुद्रपर्य - न्तभूमेः वखोकसारामिव धनदनगरीमिव ॥ युग्मम् ॥
संस्निह्यतश्चक्षुरिव प्रियं स्वं श्रीपातिसाहिं मिलति स्म पूर्वम् । गोष्ठीमनुष्ठाय पुनः सधर्म्य प्रामोदयत्प्रीतमना महीन्द्रम् ॥ ३८ ॥ स मिल हर्षोपाध्यायः पूर्वं सूरिमिलनात्प्राक् साहिमकब्बर पातिसाहिं मिलति स्म । किमिव । चक्षुरिव । यथा संस्त्रियतः स्नेहातिशयं बिभ्राणस्य नयनं स्वप्रियं निजननोरुचितं प्रति गत्वा तदङ्गसंगमात्पूर्वमेव मिलति, पुनर्मिलित्वा अनन्तरं धर्म्या धर्मसंबन्धिनीं गोष्ठीं मिथो वार्तामनुष्ठाय कृत्वा प्रीतमनाः स्वयं हृष्टमानसः सन् महीन्द्रं पातिसाहि प्रामोदयत्प्रह्लादयामास ॥
कल्याणवान्कुत्र कियच्च दूरे कदायियासुः पुनरस्ति सूरिः । साहिस्तंदोदन्तममुं मुनीन्दोः स प्राश्नयत्सख्युरिवातिहृष्यन् ॥ ३९ ॥ तदा वाचक मिलनव्यतिकरे हृष्यन् मनसि प्रमोदं प्राप्नुवन् साहिरकब्बरो मुनीन्दोहींरसूरेरमुमिहैव वृत्ते कथ्यमानमुदन्तं समाचारं प्राश्नयत्पृच्छति स्म । कस्येव । सख्युरिव । यथा कश्चित्सखा खमित्रस्योदन्तं प्रश्नयति । तमेवोदन्तप्रश्नमाह - स सूरिः कल्याणवान् कुशलीवर्तते । पुनः सूरिः कुत्र स्थाने पुरे ग्रामे वा अस्ति । पुन: कियहूरे विप्रकृष्टे स्थाने वर्तते । पुनः कदा कस्मिन्काले मासे दिने अवसरे वा आयियासुरत्रागन्तुमिच्छुरस्ति ॥
प्रभुः शुभंयुर्वरिवर्ति नीतिशालीव साङ्गानगरं पुनानः । वितिष्ठते वर्त्मनि नातिदूरे विभूषितो वर्ष्मणि वार्धकेन ॥ ४० ॥ शनैः शनैः
...........
1
॥ ४१ ॥
स साहिर्वाचकेन्द्रं विससर्ज पश्चात्प्रेषयति स्म । किं कुर्वाणः । प्रभोः सूरेरागमं खपुरे पादावधारणं समीह्मानो वाञ्छन् । पुनः किंभूतः । तेनोपाध्यायेनेत्यमुना प्रकारेणोक्तो दत्तोत्तरः । इति किम् । हे साहे, प्रभुहीँरविजयसूरिनींत्या न्यायेन शीलते शोभते इ