________________
काव्यमाला।
प्राप्यानुशास्ति प्रभुतोऽशुलक्ष्मी पर्वात्ययाच्चन्द्रमसेव भानोः । कल्याणचञ्चद्विजयाभिधानोपाध्यायचन्द्रेण ततो न्यवर्ति ॥ २५ ॥ कल्याणेन चञ्चद्राजमानं विजय इत्यभिधानं यस्य तादृशेनोपाध्यायेषु शक्रेण पुरंदरेण तत आउआग्रामात्यवतिं पश्चादलितम् । कल्याणविजयोपाध्यायः पश्चाद्वलते स्मेत्यर्थः । किं कृत्वा । प्रभुतः श्रीहीरसूरेरनुशास्तिमाज्ञां शिक्षां च प्राप्य लब्ध्वा । केनेव । चन्द्रमसेव । यथा चन्द्रेण भानोभास्करात्सकाशादंशुलक्ष्मी ज्योतिःश्रियं सं.. प्राप्य पर्वात्ययादमावास्याविरामाग्निवृत्यते ॥
ग्रामक्षमाभृद्वनदेशदुर्गानुल्लङ्घय दुर्लङ्घयभुवो बभाज । स मेदिनीनाम पुरं यतीनां पतियथा तक्षशिलां वृषाङ्कः ॥ २६ ॥ स यतीनां पतिः स्वामी सूरिः मेदिनीनाम पुरं मेडताख्यनगरं बभाज शिवाय ।. किं कृत्वा । ग्रामा लघुपुराणि संनिवेशा वा, क्षमाभृतः पर्वता: वेलकसत्कगिरयः । तत्र हि सर्वेषणं शैलानां 'वलो' इति नाम प्रसिद्धम् । वनानि काननानि, देशाः सामन्तान राज्ञां मण्डलाः, दुी विषमभूमयः कोट्टा वा, तानुल्लच्यातिक्रम्य। किंभूतान् । दुर्लक्या दुःखेन लयितुं शक्या भुवो भूमयो येषाम् । क इव । वृषाङ्क इव । यथा ऋषभदेवो ग्रामाद्यानुलक्ष्य तक्षशिलां बाहुबलिनगरी भजति स्म । अधुना तु म्लेच्छाश्रितत्वेन तस्या 'मक्का' इति नाम प्रसिद्धं श्रूयते ॥
मरुस्थलीविक्रमनागपूर्वपुरीयभव्यैर्भगवानिहैत्य । वैताढ्यशैलोत्तरदक्षिणाख्यश्रेणीनभोगैरिव स प्रणेमे ॥ २७ ॥ मरुपु सा स्थली वालुकाशैलमालाकुलस्थलप्रदेशे यद्विक्रमनगरं 'वीकानेर' इति नाम पुरम् , तथा नागमिति पदं पूर्व यत्र तादृक्पुरं 'नागोर' इति प्रसिद्धम् , तयोर्विक्रमपुरनागपुरयोः संबन्धिभिर्भव्यैः संधैरिह मेडतानगरे एत्यागत्य भगवान् सूरिः प्रणेमे नमश्के । करिव । नभोगैरिव । यथा भरतार्धविभजनजनकवतायनाम्नः शैलस्य दश योजनानि भुमेरूच गमने दशदश योजनपृथुला प्रथममेखला तस्यामुत्तरा तथा द. क्षिणा इति नाम्नी ययोस्तादृशे श्रेण्या तयोरुत्तरदक्षिणश्रेण्योर्नभसि गगनमण्डले विद्यावलेन गच्छन्ति प्रचलन्तीति नभोगा विद्याधरखेचरास्तैर्भगवांस्तीर्थकरः प्रणम्यते ॥
तं सादिमाद्यः सुरताननामाभ्युपेत्य भूपो बहु मन्यते स्म । मणिः सुराणां गुणगौरवेण कुत्रार्चनागोचरतां न गच्छेत् ॥ २८ ॥ सादिमा इति पदमाद्यं प्रथमभवं यत्र तादृशः सुरतान इति नामा । सादिमासुल. ताननामा भूपो मुद्गलेन्द्रः मेदिनीपुराधिपः अभ्युपेत्य सूरीन्दोः संमुखमागत्य तं हीरसूरि बहु मन्यते स्म बहुमानं प्रदत्ते स्म । तत्र दृष्टान्तमाचष्टे-गुणानां दानाभिलषितमानादीनां गौरवेण माहात्म्येन सुराणां मणिश्चिन्तारत्नं कुत्र व व स्थाने अर्चनायाः