________________
१३ सर्गः ]
हीरसौभाग्यम् ।
निःश्रेयसस्येव सुखं जिनेन्द्रं प्रदक्षिणीकृत्य पतिर्यतीनाम् । सुधासनाभीभवदुक्तियुक्तेर्भक्तेः स्तुतेर्गोचरयांचकार ॥ २२ ॥
१८५
यतीनां पतिर्निर्ग्रन्थनाथो हीरसूरि : जिनेन्द्र श्री ऋषभदेवं भक्तेः सेवासक्तिवशात् सुधायाः पीयूषस्य सनाभीभवन्त्यः सगोत्राः संजायमानाः उक्तीनां वाक्यानां वचनप्रपञ्चानां युक्तयो रचना यस्यां तादृश्याः स्तुतेः स्तोत्रस्य गोचरयांचकार । तुष्टावेत्यर्थः । 'गोचरयन्ति न वाचो यच्चरितं चन्द्रिकारुचिरम् । वाचस्पतेर्वचखी को वान्यो वर्णयेन्मनुजः॥” इति हस्तिमती नगरीचैत्यप्रशस्तौ । किं कृत्वा । प्रभुं वृषभस्वामिनं प्रदक्षिणीकृत्य युगादिदेवस्य तिस्रः प्रदक्षिणा: प्रदाय । उत्प्रेक्ष्यते — निःश्रेयसस्य निश्चितं श्रेयो निःश्रेयसं मोक्षस्तस्य सुखं सातमेव प्रकर्षेणानुकूलीकृत्य आत्मायत्तीकृत्य । 'दाक्षिण्यमनुकूलता' इति हैम्याम् । दक्षिणोऽप्यनुकूल इति ॥
संप्राप्तयोर्निर्जरनागधाम्नोरिवान्तिकेऽर्हत्क्रमसेवनाय ।
शिरोगृहक्ष्मागृहयोः प्रणम्य जिनान्मुनीन्दुः स ततः प्रतस्थे ॥ २३ ॥
समुनीन्दुरसूरिस्ततो राणपुराद प्रतस्थे प्रचचाल । किं कृत्वा । शिरोगृहयोरुपरितनयोर्द्वयोर्भूमिकयोस्तथा क्ष्मागृहाणि भूमिगृहाणि बहूनि चतुर्मुखसत्कान्यपरचैत्यस्थानानि च तेषु जिनान् भगवत्प्रतिमाः प्रणम्य नमस्कृत्य । उत्प्रेक्ष्यते - अर्हतो मुख्यतयैव युगादिदेवस्य क्रमयोश्चरणयोः सेवनाय उपास्तिकृत: अन्तिके समीपे संप्राप्तयोः समागतयोः निर्जराणां सुराणां नागानां धानोर्मन्दिरयोरिव । खर्लोकपाताललोकयोरिव ॥ इति राणपुरयात्रा ॥
आउआपुरेशो जगडूः किमन्यस्ताल्हाभिधः साधुरनन्यदानैः । पीरोजिकाभिः खपुरप्रवेशे प्रभावनाद्युत्सवमस्य चक्रे ॥ २४॥
आउआ इति नाम्नः पुरस्य ईशः तदायत्तत्वात्तनात्रैव वसतेरभिधानात् 'ताल्लामा - नीवसही' ' इति लोकप्रसिद्धया च तत्खामी ताल्हो इति अभिधा नाम यस्य तादृशः साधुर्वणिक् । व्यवहारीत्यर्थः । वणिजो 'साह' इति नामोच्यते । ज्ञाता अज्ञाता अपि सर्वे नैगमाः साहा एव प्रतिपाद्यन्ते । तस्य साहस्य साधुरिति पर्यायो दृश्यते श्रीसुमुनिसाधुसूरिकृतसोमसौभाग्यकाव्यादिषु । उत्प्रेक्ष्यते - अनन्य दानैरसाधारणविश्राणनैः कृत्वा अन्यो द्वितीयः किं जगडूः । प्रतिग्रामपुरदेशशत्रूपकारकरणेन जगदुद्धर्ता एकस्तु भद्रेश्वरपुरवास्तव्य आसीत्, अपरस्तु सौजातः । सोऽस्य हीरसूरेः यत् आउआभिधानं पुरं तस्मिन् प्रवेशे पादावधारणप्रस्तावे पीरोजिकाभिः पीरोजपातिसाहिना खनाम्ना कारिताभिः पीरोजिका इति नामनाणकविशेषैः प्रभावना लघुवृद्धप्रतिजनप्रदानं सैवादौ धुरि यस्य तादृशमुत्सवं चक्रे कृतवान् । मरुदेशेष्वेव प्रसिद्धाः पीरोजिकास्ता ददावित्यर्थः ॥
७४