________________
१३ सर्गः] हीरसौभाग्यम् ।
५८७ पूजायाः गोचरतां योग्यता न गच्छेन्न प्रयायात् । अपि तु सर्वत्रापि पूजां प्राप्नोतीत्यर्थः ॥ पुरं पुनानेऽम्बरवन्मुनीन्द्रे महामहोऽभूदिह दानवानाम् । तदास्यलावण्यसुधाधयानां ज्योत्लाप्रियाणामिव रोहिणीशे ॥ २९ ॥
मुनीन्द्रे हीरसूरिवासत्रे अम्बरवद्गगनाङ्गणमिव पुरं मेडताख्यनगरं पुनाने पवित्री• कुर्वाणे सति तदा सूरिसमागमनावसरे आस्ये सूरिवदने यल्लावण्यं सौन्दर्य लवणिमैव सुधाममृतरसं धयन्ति पिवन्तीति तेषां तादृशानां मानवानां मेडतापुरवासिभविकजनानां महामहोऽत्युत्सवोऽभूत्संजायते स्म । केषामिव । ज्योत्स्नाप्रियाणामिव। यथा चन्द्रोऽमृतपायिनां चकोराणामम्बरमाकाशं पुताने रोहिणीशे चन्द्रमसि महोत्सवो भवेत् ॥
एकोऽहमेव त्रिजगजनानां पिपर्मि कामानपरानपेक्षः । इति स्मयावेशवशादिवान्तः परानपास्य स्थितमेकमेव ॥ ३० ॥ मरौ सुराणामिव शाखिनं स प्रणेमिवा-श्रीफलवर्धिपार्श्वम् । अवग्रहो वृष्टिमिवेष्टसिद्धिं बध्नाति तीर्थव्यतिलङ्घनं यत् ॥३१॥(युग्मम्) स हीरसूरिः श्रिया जनादतिशायिमाहात्म्यलक्ष्म्या कलितं फलवधिनामानं पार्श्व श्रीपार्श्वनाथं प्रणेमिवान् नमस्करोति स्म । उत्प्रेक्ष्यते-मरौ धन्वमण्डले सुराणां शाखिनं कल्पवृक्षमिव । किंलक्षणम् । परानन्याजिनबिम्बानपास्य विमुच्य एकमेव स्वयमेव स्थितं खप्रासादे प्रवसन्तम् । श्रूयते हि तत्पार्श्वे परा कापि जिनप्रतिमापि स्थातुं न शक्नोति अतश्चैकाक्येव तिष्ठति । किंचेदमस्माभिरपि श्रुतचरं दृष्टचरं च, यत् फलवधिपार्श्वनाथप्रासादद्वारि कपाटौ न तिष्ठतः। कदाचित्कश्चिदानीय योजयति तदा प्रातःसमये प्रासादाक्रोशद्वयोपरि पतितौ दृश्येते, न द्वारि स्थितौ । अपि चान्या जिनप्र. तिमापि स्थापितापि पार्श्वे न तिष्ठतीति। उत्प्रेक्ष्यते-इत्यमुना प्रकारेण स्मयावेशो वाटोपः तस्य वशादायत्तत्वादिव । इति किम् । परानन्यानापेक्षते न काइति । अथ वा परेषां न अपेक्षा यस्य स परानपेक्षस्तादृशोऽहमेक एव त्रिजगबनानां त्रैलोक्यलोकानां कामान्मनोरथान् पिपर्मि पूरयामि इत्येको हेतुः ॥ युग्मम् ॥ प्रस्थापित
........... ॥ ३२॥ विमल इति पदमादौ यस्य तादृशो हर्षः स एवोपाध्यायेषु सिंहः पश्चाननः तस्मिमेदिनीपुरे मिमेल मिलति स्म।अर्थादस्य सूरेः। किंवत् । ग्रहवत् । यथा बुधग्रहो दिवि गगने इन्दोर्मिलति । विमलहर्षः किंलक्षणः। सिद्धपुरात्पूर्व सिद्धपुरनगरात्पुरोऽग्रे प्रस्थापितोऽपि । कया । साहेरकब्बरपातिसाहेहृदयवर्ती य आशयः अभिप्रायः तस्य बुभुत्सया बोद्धमिच्छया । ज्ञातुमित्यर्थः ॥
..
....
..
.
....
....