________________
६७०
काव्यमाला।
प्रणन्तुं नमस्कतु जनान् लोकान् । उत्प्रेक्ष्यते-इहार्बुदाचले इह विमलवसतो वा आतयन्तीराकारयन्तीरिव ।।
यत्र पाञ्चालिकाशिल्पं निरूप्य सुरसुभ्रवः ।
मेनिरे पद्मजन्मानं स्वभूषापरिमोषिणम् ॥ १०३ ॥ यत्र प्रासादे पाश्चालिकानां पुत्रिकाणां शिल्पं जगच्चेतश्चमत्कारकारि रचनाचातुर्य निरूप्य सम्यगालोक्य सुरसुभ्रवः त्रिदशसुदृशः पद्मजन्मानं विधातारं स्वस्या आत्मनो भूषाया वपुःप्रियरूपकस्य परिमोषिणं तस्करं मेनिरे जानन्ति स्म । यदस्माकं समग्रामपि रूपलक्ष्मीमपहृत्य प्रयत्नेन विधिना एताः शालभञ्जीविनिर्मिताः ॥
चण्डरुक्किरणमण्डलस्मयं खण्डयन्समवलोकि सूरिणा।
मण्डपो विमलकीर्तिनर्तकीनर्तनाय नवरङ्गभूरिव ॥ १०४ ॥. सूरिणा मण्डपोऽर्थाच्चैत्यमध्यवर्ती बहुजनाश्रयः समवलोकि सम्यगवधानदानपूर्वक वीक्षितः । देवभवनवैचित्र्यवीक्षणे संयमिनामपि न कश्चिद्दोषः । यतस्तत्र धर्मबुद्धेरुद्धोधात् । मण्डपः किं कुर्वन् । चण्डरुचः सूर्यस्य किरण रश्मिभिर्मण्डितस्य मण्डलस्य बिम्बस्य स्मयमहंकारं खण्डयन् शकलीकुर्वन् । उत्प्रेक्ष्यते-विमलमन्त्रिणः कीतिरेव नर्तकी नृत्यकारिका पात्रं तस्या नर्तनाय ताण्डवविधानाय नवा नवीना । अथ वा 'णु स्तुतौ' । नवनं नवः नवस्य स्तुतेर्योग्या मध्यपदलोपे रङ्गभूमिर्नर्तनस्थानक्षोणिरिव ॥
वैजयन्तं विजेतुं विभूषाभरैर्वज्ररोचिःस्फुरच्चापचक्रायुधः । यः स्वशृङ्गेण गर्वादिवो गाहिना गन्तुमुच्चैर्व्यवस्यन्निवोर्जस्वलः ॥१०॥ यो मण्डपो विभूषाभरैः खशोभातिशयैः वैजयन्तमिन्द्रप्रासादं विजेतुं पराभवितुं दिवो गगनमार्गस्य गाहिना अवगाहनशीलेन । अभ्रंलिहेनेत्यर्थः । खशृङ्गेण निजशिखरेण गर्वादहंकारादुच्चैरू खलोंके गन्तुं प्रयातुं व्यवस्यन्व्यवसायमुद्योगं कुर्वन्निव । किंभूतो मण्डपः । ऊर्जस्खल: स्फूर्तिमान् प्रबलबलवान्वा । पुनः किंभूतः । वज्राणां वज्रमणीनां रोचिभिः कान्तिभिः कृत्वा स्फुरत्प्रकटीभवद्यच्चापचक्रं धनुर्मण्डलं तदेवायुधं प्रहरणं यस्य । अथ च वज्रमिन्द्रायुधं तथा रोचिषा कान्त्या स्फुरद्दीप्यमान चापयुक्तमिन्द्र धनुःकलितं चक्रं रथाङ्गं तथा आयुधान्यपराणि खड्गकुन्तभिन्दमालक्षुरिकायमदंष्ट्राप्रमुखानि शस्त्राणि यस्य । परोऽपि सुभटः खप्रतिद्वन्द्विना समं योद्धं गच्छन् संपूनि शस्त्राणि गृह्णाति ॥
आलुलोकेऽमुना गर्भगेहः पुना राजधानीव धर्मावनीभास्वतः । चित्रितामर्त्यमोरगाणां निभाद्भूर्भुवःस्वस्त्रयेणेव संसेवितः ॥ १०६ ॥ अमुना मुनीन्द्रेण गर्भगेहो गर्भागारो व्यालुलोके 'गभारो' इति लोके प्रसिद्धो दृष्टः ।