________________
• १२ सर्गः] हीरसौभाग्यम् । उत्प्रेक्ष्यते-धर्म एवावनेर्भूमे खान् विश्वत्रयातिशायितेजस्तया मास्करः एतावता राजाधिराजः । 'पाण्डोरवनिमार्तण्डस्यावदातान् गुणान् रहः' इति पाण्डवचरित्रे । राज्ञो भूमीभास्कर इति नामापि । तस्य राजधानी ससुखनिवासनगरीव। पुनरुत्प्रेक्ष्यतेचित्रितानामालेख्यभावं प्रापितानाममानां देवानां मानां मनुष्याणामुरगाणां नागानाम् । उपलक्षणादसुरादीनां परिग्रहः । तत्साहचर्यादेव दानवमानवानां पल्योऽपि गृह्यन्ते । तन्निभात्कपटात् भूर्भुवःखस्त्रयेण पातालभूमण्डलखर्गलोकत्रिकेण सम्यक् सेवित इवोपासितः ॥
. चैत्यस्य परितो देवकुलिकाः पश्यति स्म सः ।
अर्बुदाद्रिश्रियाश्चूडाभरणस्येव मुक्तिकाः ॥ १०७ ॥ • स सूरिश्चैत्यस्य विमलवसतेः परितश्चतुर्दिक्षु सर्वतो वा देवकुलिका लघुदेवगृहान् पश्यति स्म प्रदक्षिणाप्रदानावसरे दृष्टवानित्यर्थः । उत्प्रेक्ष्यते-अर्बुदनाम्नोऽद्रेः पर्वतस्य श्रिया लक्ष्म्याश्चडायाः शिखाया आभरणस्य विभूषणस्य । चूडामणेरित्यर्थः । लोके 'वाक' इति प्रसिद्धस्य मुक्तिका लघुमुक्ताफलानीव । "सिता वमन्तः खलुः कीर्तिमुक्तिकाः' इति नैषधे । 'मुक्तिका लघूनि मौक्तिकानि' इति तद्वृत्तिः ॥
चैत्यं प्रदक्षिणीचक्रे समं संघेन स प्रभुः। . ज्योतिषां मण्डलेनेव मन्दरं कौमुदीपतिः ॥ १०८ ॥ स प्रभुहीरविजयसूरिः संघेन साधुसाध्वीश्राधाद्धीवर्गेण समं साधै चैत्यं मूलप्रा. सादं प्रदक्षिणीचके। त्रिर्वारं प्रदक्षिणां प्रददिवानित्यर्थः । कौमुदीपतिरिव यथा चन्द्रमा ज्योतिषां ग्रहनक्षत्रतारकाणां मण्डलेन कदम्बकेन साकं मन्दरं मेरुपर्वतं प्रदक्षिणयति। जनमते मन्दरो नेरुः । यदुक्तं स्नातस्यास्तुतौ-'येषां मन्दररत्नशैलशिखरे जन्माभिषेकः कृतः' इति । सर्वेषां तीर्थकृतां जन्माभिषेकस्थानं मेरुरेवातोऽत्र मन्दरः सुवर्णाचलः । आगमेऽपि 'मंदरस्स पन्वयस्स' इत्यादि । परशासने कविसमये च मन्दर इन्द्रकीलपर्वतः मेरोः पृथक् दृश्यते, परं त्वत्र जैनमतानुसार्येव मन्दरो मेरुरिति वचनम् ॥ इति विमलवसतिमध्यवर्णनम् ॥
विवेश वशिनामीशो गर्भगेहे जिनौकसः ।
स्तम्बेरमीविवोढेव गहरे विन्ध्यभूभृतः ॥ १०९॥ वशिनां जितेन्द्रियाणां योगिनां साधूनामीशो नायकः सूरिजिनौकसः वृषभदेवगृहस्य । प्रासादस्येत्यर्थः । गर्भगेहे गर्भागारे विवेश प्रविशति स्म । क इव । स्तम्बेरमीवि. वोढेव । यथा स्तम्बेरम्या हस्तिन्या विवोढा पतिहस्ती । 'विवोढा रमणो भोक्ता इति हैम्याम् । विन्ध्यभूभृतो जलबालकाचलस्य गहरे विविधजातिनिबिडविनिद्रद्रुमक्षोणीदुः. प्रवेशविपिने प्रविशति । 'गौरीगुरोर्गह्वरमाविवेश' इति रघौ । 'बहुवृक्षावृतं वनं गवरम् इति तद्वत्तिः । तथा 'गह्वरो बिलदम्भयोः । कुओऽथ' इत्यनेकार्थः ॥