SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ १२ सर्गः] हीरसौभाग्यम् । कारिगी । अथ वा शुभानि मङ्गलानि शंसति कथयति इलेवंशीला दृष्टमात्राप्यहं कत्या. णानि करोमीति कथयित्रीत्यर्थः । उत्प्रेक्ष्यते-जिनाधिभर्तुर्युगादिदेवस्य मुक्तिकन्यया सिद्धिकुमार्या सहोद्वाहविधौ पाणिग्रहणकरणसमये विरश्चिना विश्वसृजा किमियं कृता एषा तोरणधोरणी विनिर्मितेव ॥ श्रीभिर्जगन्मूर्धविधूननीभिश्चैत्येऽत्र वैचित्र्यदिदृक्षयेव । रूप्याचलोऽनल्पतनुःसमीयिवांस्तेनैक्ष्यत स्तम्भततिःसिताश्मनाम् १०० तेन सूरिणा सिताश्मनां श्वेतोपलनिर्मितानां स्तम्भानां ततिः पतिरेक्ष्यतालोकिता । उत्प्रेक्ष्यते-अनल्पा बहव्यस्तनको मूर्तयो यस्य तादृप्रूपो रूप्याचल: कैलासः समीयिवानिव किं समेतः । 'रजताद्रिस्तु कैलासः' इति हैम्याम् । कया । जगतां त्रिभुवनानां तात्स्थ्यात्तद्यपदेशे सुरासुरनराणां मूनी मस्तकानां विधूननीभिः आश्चर्यातिरेकात्कम्पयित्रीभिः । 'अद्भुतकरी परमूर्धविधूननी-' इति नैषधे । श्रीभिः शोभाभिः कृत्वा अत्र चैत्ये अस्मिन्विमलमन्त्रिनिर्मापितप्रासादे वैचित्र्यस्य विचित्रताया अथ वा विशिटानां जवाबनाश्चर्यविधायिनां चित्राणां पाश्चालिकाप्रमुखाणां नानाखरूपाणामाश्चर्याप्रमालेख्यानां वा दिदृक्षया द्रष्टुमिच्छया दृग्गोचरीकरणाकाङ्क्षया ॥ महाव्रतिप्राप्तमृतिं निजं पति समीक्ष्य कामं श्वशुरं जिनं श्रितः । स्मरावरोधः किमु यत्र पुत्रिकाचयोऽमुना लोचनगोचरीकृतः ॥१०१॥ अमुना वांचंयमचक्रिणां यत्र विमलवसतौ पुत्रिकाणां पाश्चालिकानां प्रचयो व्रजो लोचनयोश्चक्षुषोगोंचरीकृतः लक्ष्यो विहितः । दृष्ट इत्यर्थः । उत्प्रेक्ष्यते-जिनं नारायणं श्वशुरं खभर्तुः पितरं श्रितः सेवमानः पार्श्वे स्थितः स्मरावरोधः मदनान्तःपुरं किमु । अथ च विधवकुसुमध्वजयुवतीव्रजः खस्यात्मनो जिनभक्तत्वात् श्राद्धत्वात्तस्य सुरं मोक्षलक्षणाभीष्टदायकं देवं जिनं तीर्थकरं श्रितः । ‘स्मरावरोधभ्रममुद्वहन्ती' इति नैषधे । किं कृत्वा । महाव्रती शंभुः तस्मात्प्राप्ता अधिगता मृतिमरणं येन तादृशं निजमात्मीयं पतिं भर्तारं कामं कंदर्प समीक्ष्य । अथ च महाव्रती जिनः स चास्मद्भर्तृघातकस्तद्वात्तद्वधूजनं मामपि हन्यादतो जिनं स्मरावरोध: सेवते । 'नाश्रितं वैरिणमपि हिनस्ति महान्' इति श्रुतिः ॥ ताण्डवं तन्वतीविभ्रमैर्हस्तकान्दर्शयन्तीरिहानेकपाश्चालिकाः । पाणिमुत्तम्भ्य शंभुं प्रणन्तुं जनानाह्वयन्तीरिवासौ ददर्श प्रभुः १०२ असी प्रभुः सूरिरनेका विविधजातीयाः शतशः पाश्चालिकाः पुत्रिका ददर्श दृष्टवान् । अथ पुत्रिकाणां विविधसंस्थानान्गाह-किं कुर्वतीः । ताण्डवं काश्चिन्नत्यं तन्वतीः कुर्वतीः । पुनः किंभूताः । विनमैर्विलासैः कृत्वा हस्तकान् हस्तविक्षेपान् दर्शयन्तीः । पुनः किंभूताः । पाणिं काश्चिनिजहस्तमुत्तम्भ्य ऊर्वोकृत्य शंभु नाभिनन्दं
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy